Jharkhand Board Class 8 Sanskrit Notes | संस्कृतभाषायाः महत्त्वम्
JAC Board Solution For Class 8TH Sanskrit Chapter 10
पाठ: – सुमित्रा― शान्ते । त्वम् किं करोषि ?
अर्थ – सुमित्रा― शांति ! तुम क्या कर रही हो?
पाठः – शांति― सुमित्रे ! अहं संस्कृतं पठामि ।
अर्थ – शांति― सुमित्रा ! मैं संस्कृत पढ़ रही हूँ।
पाठः –सुमित्रा― किं त्वं संस्कृतस्य महत्त्वं जानासि ?
अर्थ ― सुमित्रा― क्या तुम संस्कृत का महत्त्व जानती हो ?
पाठः – शांति― आम् जानामि अहम् । संस्कृतभाषा सर्वासा भारतीयभाषाणां
जननी अस्ति । वयं संस्कृतं पठित्वा स्वसंस्कृति ज्ञातुं समर्थाः भवामः ।
अतः भारतीयानां कृते संस्कृताध्ययनम् अत्यावश्यकम् ।
अर्थ –शांति― हाँ, मैं जानती हूँ। संस्कृत भाषा सभी भारतीय भाषााओं
की माता है। हम सब संस्कृत पढ़कर अपनी संस्कृति को जानने
में समर्थ होते हैं। इसलिए भारतीयों के लिए संस्कृत का अध्ययन
अति आवश्यक है।
पाठः– सुमित्रा― संस्कृतसाहित्य कतिविधं वर्तते ?
अर्थ –सुमित्रा― संस्कृत साहित्य कितने तरह के हैं ?
पाठ: –शांति― संस्कृतभाषायाः द्वे रूपे स्तः- वैदिक संस्कृतं लौकिक
संस्कृतं च।
अर्थ –शांति―संस्कृत भाषा के दो रूप हैं- वैदिक संस्कृत और लौकिक
संस्कृत हैं।
पाठः –सुमित्रा―वैदिकसंस्कृतस्य कानि प्रमुखानि साहित्यानि सन्ति ?
अर्थ –सुमित्रा― वैदिक संस्कृत के प्रमुख साहित्य कौन-से हैं ?
पाठः –शांति― चत्वारः वेदाः ब्राह्मणग्रन्थाः आरण्यकग्रन्थाः उपनिषदः
इत्यादयः वैदिक साहित्यं कथ्यते ।
अर्थ –शांति― चारों वेद, ब्राह्मणग्रंथ, आरण्यकग्रंथ, उपनिषद आदि
वैदिक साहित्य कहे जाते हैं।
पाठः –सुमित्रा― लौकिकसंस्कृतस्य प्रमुखा ग्रन्थाः के-के सन्ति ?
अर्थ –सुमित्रा― लौकिक संस्कृत के प्रमुख ग्रंथ कौन-कौन हैं ?
पाठः –शांति― लौकिकसंस्कृतस्य अनेके प्रमुखाः ग्रन्थाः सन्ति ।
यथा-रामायणम् महाभारतम् पुराणानि कुमारसम्भवम् रघुवंशम्,
मेघदूतम अभिज्ञानशाकुन्तलम् मनुस्मृतिः नीतिशतकम् शिशुपालवधम्
पञ्चतन्त्रम् कादम्बरी इत्यादयः ।
अर्थ – शांति― लौकिक संस्कृत के अनेक प्रमुख ग्रंथ हैं। जैसे-रामायण,
महाभारत, पुराण, कुमारसंभव, रघुवंश, मेघदूत, अभिज्ञानशाकुन्तलम्,
मनुस्मृति, नीतिशतक, शिशुपालवध, पंचतंत्र कादम्बरी आदि ।
पाठः ― सुमित्रा― किं संस्कृते विज्ञानसम्बन्धिनः मानवजीवनोपयोगिनः ग्रन्थाः
अपि सन्ति?
अर्थ –सुमित्रा― क्या संस्कृत में विज्ञान से संबंधित मानव जीवन के
उपयोगी ग्रंथ भी हैं?
पाठः –शांति―आम् सुमित्रे ! आयुर्वेदः धनुर्वेदः अर्थशास्त्रम् वास्तुशास्त्रं
योगदर्शनम् इत्यादयः संस्कृतभाषायामेव लिखिताः सन्ति ।
अर्थ –शांति― हाँ सुमित्रा ! आयुर्वेद, धनुर्वेद, अर्थशास्त्र, वास्तुशास्त्र,
योगदर्शन, आदि संस्कृत भाषा में ही लिखा हुआ है।
पाठः– सुमित्रा―संस्कृतभाषा कीदृशी भाषा अस्ति ?
अर्थ –सुमित्रा―संस्कृतभाषा कैसी भाषा है ?
पाठः –शांति― संस्कृतभाषा सर्वाधिका सरला सरसा लोकप्रिया च अस्ति ?
अर्थ –शांति― संस्कृत भाषा, सबसे अधिक सरल, सरस और लोकप्रिय है।
पाठः –सुमित्रा― किं तव पार्वे नीतिविषयाधारितं पुस्तकम् अस्ति ?
अर्थ –सुमित्रा― क्या तुम्हारे पास नीति पर आधारित पुस्तक है?
पाठः – शांति― आम् ! मम पार्वे भतृहरिणा रचितं नीतिशतकम् अस्ति ।
अस्मिन् पुस्तके नीतिविषयाधारिताः शतश्लोकाः सन्ति । इमं ग्रन्थं
पठित्वा जनाः ज्ञानवन्तः भवितुम् अर्हन्ति ।
अर्थ –शांति― हाँ ! मेरे पास भर्तृहरि द्वारा रचित नीतिशतक है। इस
पुस्तक में नीति पर आधारित सौ श्लोक हैं । इस ग्रंथ को पढ़कर
लोग ज्ञानवान हो सकते हैं।
पाठः –सुमित्रा― किं त्वं 'सुधर्मा' इति संस्कृतसमाचारपत्रस्य विषये जानासि ?
अर्थ – सुमित्रा― क्या तुम सुधर्मा नामक संस्कृत समाचार पत्र के विषय
में जानती हो?
पाठः – शांति― आम्, सुधर्मा भारते प्रकाशितं दैनिकसंस्कृतसमाचारपत्रम्
अस्ति । इतोऽपि सम्भाषणसन्देशः, चन्दामामा इत्यादयः मासिकपत्रिकाः
संस्कृते एव लिखिताः सन्ति ।
अर्थ –शांति― हाँ, सधर्मा भारत में प्रकाशित दैनिक समाचार पत्र है।
और भी संभाषण संदेश, चंदामामा आदि मासिक पत्रिका संस्कृत
में ही लिखी हुई है।
पाठः –सुमित्रा― एषः तु अतीव गौरवस्य विषयः ।
जनासि त्वम् यत् संसारस्य अग्रणीवैज्ञानिकीसंस्थायाः नासायाः
अनुसारं संस्कृतभाषा संङ्गणकस्य कृते सर्वश्रेष्ठा भाषास्ति इति
उद्घोषितम् ।
अर्थ –सुमित्रा― यह तो बहुत गौरव का विषय है। तुम जानती हो कि
संसार की अग्रणी वैज्ञानिक संस्था नासा के अनुसार, संस्कृत भाषा
कम्प्यूटर के लिए सबसे श्रेष्ठ भाषा है। ऐसी घोषणा की गई है।
पाठ: – शांति― आम् ! जानाम्यहम् । संस्कृतभाषा विश्वस्य प्राचीनतमा
भाषा अस्ति । अस्माकं संस्कृतेः सभ्यतायाः च मूलम् अस्यामेव
भाषायां निहितम् अस्ति ।
अर्थ –शांति― हाँ, मैं जानती हूँ। संस्कृत भाषा संसार की सबसे प्राचीन
भाषा है। हमारी संस्कृति और सभ्यता का मूल इस भाषा में
निहित है।
पाठः –उभे― वयम् एतां मधुरां भाषां सदैव रक्षिष्यामः ।
(उभे मिलित्वा गायत:)
"वयं पठामः संस्कृतं वयं लिखामः संस्कृतम् ।
सदा वदामः संस्कृतं प्रचारयामः संस्कृतम् ।।"
अर्थ –दोनों―हमलोग इस मधुर भाषा की हमेशा रक्षा करेंगे। (दोनों
मिलकर गाती है)-हमलोग संस्कृत पढ़ते हैं, हम संस्कृत लिखते
हैं। हमेशा संस्कृत बोलते हैं। संस्कृत का प्रचार करते हैं।
अभ्यासः
प्रश्न 1 में शब्दार्थ है।
2.. 'आम्' अथवा 'न' माध्यमेन उत्तरत―
(क) संस्कृतभाषा कठोरा भाषा अस्ति । ....................
(ख) संस्कृते नीतिविषयाधारिताः ग्रन्थाः सन्ति । ...................
(ग) तुलसीदासः संस्कृतस्य रचनाकारः आसीत् । ...................
(घ) सुधर्मा संस्कृतस्य समाचारपत्रम् आसीत् । ....................
(ङ) संस्कृतं पठित्वा जनाः ज्ञानवन्तः भवन्ति । ...................
उत्तर― (क) न (ख) आम् (ग) न (घ) आम् (ङ) आम्
3. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत―
(क) सर्वासां भारतीयभाषाणां जननी का? ...................
(ख) वयं किं पठित्वा स्वसंस्कृति ज्ञातुं .......................
समर्थाः भवामः।
(ग) भारतीयानां कृते किम् अत्यावश्यकम् ? ..................
(घ) नीतिशतक केन रचितम् ? .....................
(ङ) संसारस्य अग्रणी वैज्ञानिकीसंस्था का ? ...................
उत्तर―(क) संस्कृतभाषा (ख) संस्कृतम् (ग) संस्कृताध्ययनम्
(घ) भर्तृहरिणा (ङ) नासा
4. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत―
(क) संस्कृतसाहित्यं कतिविधं वर्तते ?
(ख) वैदिकसंस्कृतस्य कानि प्रमुखानि साहित्यानि सन्ति ?
(ग) संस्कृते मानवजीवनोपयोगिनः ग्रन्थाः के के सन्ति ?
(घ) संस्कृतभाषा कीदृशी भाषा अस्ति?
(ङ) संस्कृतभाषा कस्य कृते सर्वश्रेष्ठा भाषा अस्ति?
उत्तर―(क) संस्कृतसाहित्यं द्वे रूपे स्तः।
(ख) वैदिक संस्कृतस्य वेदाः ब्राह्मणग्रन्थाः, आरण्यकग्रन्थाः, उपनिषदः
इत्यादयः प्रमुखानि साहित्यानि सन्ति।
(ग) संस्कृते मानवजीवनोपयोगिनः ग्रन्थाः आयुर्वेदः धनुर्वेदः अर्थशास्त्रम्
वास्तुशास्त्रं योगदर्शनम् इत्यादयः सन्ति।
(घ) संस्कृतभाषा सर्वाधिका सरला सरसा लोकप्रिया चास्ति।
(ङ) संस्कृतभाषा भारतीयानां कृते सर्वश्रेष्ठा भाषा अस्ति।
5. रेखाङ्कितानि पदानिआधृत्य प्रश्नवाक्यानि लिखत―
(क) सर्वे संस्कृतस्य महत्त्वं जानन्ति ।
(ख) वयं संस्कृतं पठित्वा ज्ञानवन्तः भवामः ।
(ग) संस्कृते अनेके ग्रन्थाः सन्ति ।
(घ) संस्कृतभाषा लोकप्रिया भाषा अस्ति ।
(ङ) मेघदूतं कालिदासेन रचितं काव्यम् ।
उत्तर―(क) सर्वे कस्य महत्त्वं जानन्ति ?
(ख) वयं किं पठित्वा ज्ञानवन्तः भवाम् ?
(ग) कस्मिन् अनेके ग्रन्थाः सन्ति ?
(घ) संस्कृतभाषा कीदृशी भाषा अस्ति ?
(ङ) किं कालिदासेन रचितं काव्यम् ?
6. विशेषण विशेष्येण सह मेलनं कुरुत―
विशेषणं विशेष्यम्
यथा–(क) लोकप्रिया श्लोकाः
(ख) शतम् लोक भाषा
(ग) ज्ञानवन्तः संस्था
(घ) वैज्ञानिकी साहित्यम्
(ङ) वैदिकम् जनाः
उत्तर―(क) लोकप्रिया ― लोक भाषा
(ख) शतम् ― श्लोकाः
(ग) ज्ञानवन्तः ― जनाः
(घ) वैज्ञानिकी ― संस्था
(ङ) वैदिकम् ― साहित्यम्
7. उदाहरणानुसारं पदपरिचयं लिखत―
पदानि विभक्तिः वचनम्
यथा― भाषाणाम् षष्ठी बहुवचनम्
(क) साहित्यानि ............ .............
(ख) संस्कृते ............. ..............
(ग) भतृहरिणा .............. ...............
(घ) समाचारपत्रस्य .............. ...............
(ङ) संस्कृतम् .............. ..............
उत्तर―(क) साहित्यानि प्रथमा बहुवचन
(ख) संस्कृते सप्तमी एकवचन
(ग) भतृहरिणा तृतीया एकवचन
(घ) समाचारपत्रस्य षष्ठी एकवचन
(ङ) संस्कृतम् प्रथमा एकवचन
8. उदाहरणं दृष्ट्वा सन्धिविच्छेदं कुरुत―
यथा― विद्यालयः = विद्या + आलयः
(क) इत्यादयः = ......................
(ख) भाषास्ति = .....................
(ग) जानाम्यहम् = ....................
(घ) अत्यावश्यकम् = ...................
(ङ) सदैव = ...................
उत्तर―(क) इत्यादयः = इति + आदयः
(ख) भाषास्ति = भाषा + अस्ति
(ग) जानाम्यहम् = जानामि + अहम्
(घ) अत्यावश्यकम् = अति + आवश्यकम्
(ङ) सदैव = सदा + एव
★★★