JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

   Jharkhand Board Class 7TH Sanskrit Notes | जन्तुशाला  

 JAC Board Solution For Class 7TH Sanskrit Chapter 3

                                     (अव्यय प्रयोगः)

पाठ― (विद्यालयस्य सर्वे छात्राः शिक्षकैः सह विरसाजैविकोद्यानात् बहिः
एकत्रिताः भवन्तिा ते सर्व प्रसन्नाः सन्तिा ते परस्परं वार्तालापं कुर्वन्तः
जन्तुशालां प्रविशन्ति।)
अर्थ― (विद्यालय के सभी छात्र शिक्षकों के साथ बिरसा जैविक उद्यान के
बाहर एकत्रित होते हैं। वे सभी प्रसन हैं। वे आपस में बातचीत करते
हुए प्रवेश करते हैं।

पाठ― आदित्यः― अपूर्वे पश्य! जन्तुशालायाः शोभा अतिरमणीया ।
अर्थ― आदित्य― अपूर्वा देखो। चिड़ियाघर की शोभा अत्यधिक रमणीय है।

पाठ― अपूर्वा ― आम्। जन्तुशालायाः परिवेशः तु वस्तुतः दर्शनीयः एव।
अर्थ― अपूर्वा― हाँ ! चिड़ियाघर का परिवेश तो वास्तव में ही दर्शनीय है।

पाठ― दीपकः ― अये अपूर्वे ! पश्य अयं गजः अस्ति। एषः पृथिव्यां
स्थलभागस्य विशालतमः पशुः अस्ति।
अर्थ― दीपक― हे अपूर्वा ! देखो यह हाथी है। यह धरती पर स्थल भाग का
सबसे बड़ा पशु है।

पाठ― अपूर्वा ― तत्रापि पश्य ! स: वनराजः सिंह: वृक्षस्य नीचैः कथं राजा
इव उपविशति ? जनाः तं मृगपतिः पञ्चाननः मृगराजः केशरी अपि
कथयन्ति।
(तदा अनुरागः शुभः आलोकः श्रेयांशुः साक्ष्यः शिवांगी अदितिः चापि
तत्र आगच्छन्ति परस्परं वार्तालापं च कुर्वन्तिा)
अर्थ― अपूर्वा-वहाँ भी देखो। वह जंगल का राजा सिंह पेड़ के नीचे कैसे
राजा की तरह बैठा है। लोग उसको मृगपति, पंचानन, मगराज, केशरी
भी कहते हैं। (तभी अनुराग, शुभ, आलोक, श्रेयांशु, साक्ष्य, शिवांगी
और अदिति भी वहाँ आते हैं और आपस में बातचीत करते हैं।)

पाठ― अनुरागः ― शिवागि ! जन्तुशालायां तु बहवः पशवः सन्ति। यथा–वानराः
भल्लूकाः मृगाः व्याघ्राः जम्बूकाः सिंहाः इत्यादयः। पश्य, वानराः कर्य
वृक्षस्य उपरि गच्छन्ति अधः च कूर्दन्ति।
अर्थ― अनुराग-शिवांगी। चिड़ियाघर में तो बहुत पशु हैं। जैसे-वानर, भालू,
हरिण, सियार, सिंह आदि । देखो, वानर कैसे पेड़ के ऊपर जाते हैं
और नीचे कूदते हैं।

पाठ― शिवांगी ― पश्यत सर्वे । अत्र एकः रम्यः सरोवरः अस्ति। अस्मिन्
सरोवरे बहवः जलजीवाः सन्ति। अत्र मकराः, मीनाः, कच्छपाः,
कर्कयः मण्डूका: आदयः वसन्ति।
अर्थ―शिवांगी―सब देखो । यहाँ एक सुन्दर तालाब है। इस तालाब में बहुत
से जल में रहने वाले जीव हैं। यहाँ मगरमच्छ, मछली, कछुआ,
केकड़ा. मेढ़क आदि रहते हैं।

पाठ― आलोकः― शिवागि ! किं मण्डूकाः जले अपि तिष्ठन्ति
अर्थ― आलोक― शिवांगी। क्या मेढक जल में भी रहते हैं।

पाठ― शिवांगी ― आम् ! मण्डूकाः तु जले भूमौ च उभयत्र विचरन्ति ते
उभयचराः सन्ति।
अर्थ― शिवांगी― हाँ। मेढक तो जल और धरती दोनों पर रहते हैं। वे
उभयचर हैं।

पाठ– शुभः – अदिति । पश्य, पश्या मृगस्य शोभाम। कथं धावति सः ।
(सर्व बालकाः मृगस्य मनोहर धावन पश्यन्ति उच्चैः करतलध्वनि च
कुर्वन्तिा)
अर्थ– शुभ– अदिति । देखो, देखो। हिरण की शोभा को यह कैसे दौड़ता
है। (सभी लड़के हरिण की सुन्दर दौड़ को देखते हैं और जोर से
ताली बजाते है।)

पाठ– शुभः – अलं कोलाहलेना
अर्थ– शुभ–शोर मत करो।

पाठ–श्रेयांशुः – तत्र तु अनेके पक्षिणः सन्ति। यथा-शुकाः पिकाः कपोता:
उलूकाः सारिकाः इत्यादयः।
अर्थ– श्रेयांशु– यहाँ तो अनेक पक्षी हैं। जैसे-तोता, कोयल, कबूतर, उल्लू,
मैना आदि।

पाठ– अवितिः – अनुराग । किम् अत्र सर्पाः अपि सन्ति ?
अर्थ– अदिति– अनुराग । क्या यहाँ साँप भी है?

पाठ– अनुरागः – आम्, तत्र चलता तत्र अनेके सर्पाः सन्ति। एते सर्वे
अनेकवर्णाः भवन्ति।
अर्थ– अनुराग– हाँ, वहाँ चलो। वहाँ अनेक सौंप हैं। ये सभी अनेक रंग
के हैं।

पाठ– साक्ष्यः – शुभ ! पश्य अयम् अजगरः अस्ति। अयं तु अतिविशाल:
अस्ति।
अर्थ– साक्ष्य– शुभ ! देखो यह अजगर है। यह तो बहुत विशाल है।

पाठ– शुभः – आम्, अयं तु अतिविशालः भयङ्करः चास्ति।
अर्थ– शुभ – हाँ, यह तो बहुत विशाल और भयंकर है।

पाठ–शिक्षकः – वयं पुनः अत्र आगमिष्यामः। इदानीं चलत, सायंकाल:
भवति।
अर्थ–शिक्षक–हमलोग फिर यहाँ आएँगे। अब चलो शाम हो रही है।

पाठ– सर्वे – आम्, चलामः (सर्वे बसयानं प्रति गच्छन्ति।)
अर्थ– सभी– हाँ, चलते हैं। (सभी बस की ओर जाते हैं)

                                    अभ्यासः

प्रश्न संख्या 1 शब्दार्थ है।
2. 'आम्' अथवा 'न' माध्यमेन उत्तरत―
(क) जन्तुशालायां बहवः पशवः वसन्ति। 
(ख) छात्राः चलच्चित्रं द्रष्टुं गच्छन्ति।
(ग) जन्तुशालायां वानराः नृत्यन्ति।
(घ) अजगर: तु अतिलघुः भवति।
(ङ) जन्तुशालायां अनेके पक्षिणः भवन्ति।
उत्तर―(क) आम् (ख) न (ग) न (घ) न (ङ) आम्

3. एकपदेन उत्तरत―
(क) के प्रसन्नाः सन्ति ?
(ख) गजः कीदृशः पशुः अस्ति ?
(ग) वनराजः कः अस्ति?
(घ) कस्याः शोभा अतिरमणीया ?
(ङ) क: मनोहरं नृत्याति ?
उत्तर―(क) छात्राः
(ख) विशालतमः
(ग) सिंहः
(घ) जन्तुशालायाः
(ह) मयूरः

4. पूर्णवाक्येन उत्तरत―
(क) सर्वे छात्राः कुत्र एकत्रिताः भवन्ति ?
उत्तर― सर्वे छात्राः बिरसाजैविकोद्यानात् बहिः एकत्रिताः भवन्ति।

(ख) जनाः सिंह किं कथयन्ति ?
उत्तर― जनाः सिह मृगपतिः मृगराजः केशरी आद्यः कथयन्ति।

(ग) सरोवरे के के जलजीवाः सन्ति ?
उत्तर― सरोवरे मकराः मीनाः, कच्छपाः, मण्डूकाः आदेयः जलजीवा:
सन्ति।

(घ) जन्तुशालायां के के पक्षिणः सन्ति ?
उत्तर― जन्तुशालायां शुकाः पिकाः, कपोताः, सारिका आदयः पक्षिणः
सन्ति।

(ङ) बालकाः किं किं दृष्ट्वा करतलध्वनि कुर्वन्ति ?
उत्तर― बालकाः मृगस्य, धावन शोभाम् च दृष्ट्वा करतलध्वनि
कुर्वन्ति।

5. रेखाडिकतानि पदानि आधृत्य प्रश्नवाक्यानि लिखत―
(क) मण्डूकाः जले तिष्ठन्ति।
उत्तर― के जले तिष्ठन्ति ?

(ख) जन्तुशालायाः परिवेशः वर्शनीयः।
उत्तर― कस्याः परिवेशः दर्शनीयः?

(ग) छात्रा: बसयानेन गच्छन्ति।
उत्तर― छात्रा कथं गच्छन्ति ?

(घ) सर्वे मयूरस्य नृत्यं पश्यन्ति।
उत्तर― सर्वे कस्य नृत्यं पश्यन्ति ?

(ङ) सरोवरे बहवः जलजीवाः सन्ति।
उत्तर― कुत्र बहवः जलजीवाः सन्ति ?

6. मजूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत―
अलम् अन्तः बहिः अध: उपरि नीचैः
यथा―वृक्षस्य उपरि खगाः वसन्ति ।
(क) सः वनराजः सिंहः वृक्षस्य ......... कथं राजा इव उपविशति?
(ख) ................. विवादेन।
(ग) वर्षाकाले गृहात् ........... मा गच्छ।
(घ) मञ्चस्य ................ श्रोतारः उपविष्टाः सन्ति।
(ङ) छात्राः जन्तुशालायाः ............... प्रविशन्ति।
उत्तर―(क) अधः (ख) अलम् (ग) बहिः (घ) नीचैः (ङ) अन्तः ।

7. अशुद्धं पदं चिनुत―
(क) गमन्ति यच्छन्ति पृच्छन्ति धावन्ति।
(ख) रमाभ्यः सीताभ्यः रामाभ्यः कमलाभ्यः ।
(ग) लतया मातया रमया निशया।
(घ) लते रमे माते प्रिये।
(ड) लिखति गर्जति फलति असति।
उत्तर―(क) गमन्ति। (ख) रमाभ्यः (ग) मातया (घ) माते (ङ) असति

                                          ■■

  FLIPKART

और नया पुराने