Jharkhand Board Class 6TH Sanskrit Notes | समुद्रतटे
JAC Board Solution For Class 6TH Sanskrit Chapter 7
पाठ का अर्थ
पाठः― एषः समुद्रतटः । अत्र जनाः पर्यटनाय आगच्छन्ति । केचन तरङ्गै:
क्रीडन्ति । केचन च नौकाभिः जलविहारं कुर्वन्ति । तेषु केचन
कन्दुकेन क्रीडन्ति । बालिकाः बालकाः च बालुकाभिः बालुकागृहं
रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति । एषा क्रीडा
प्रचलित एव । समुद्रतटाः न केवलं पर्यटनस्थानानि अपितु
मत्स्यजीविनः अपि स्वजीविकां अत्र चालयन्ति ।
अर्थ― यह समुद्र का तट है। यहाँ लोग घूमने के लिए आते हैं। कोई तरंगों
से खेलते हैं और कुछ नौकाओं से जलविहार करते हैं। उनमें कुछ
गेंद से खेलते हैं। लड़के और लड़कियाँ बालू से बालू का घर बनाते
हैं। बीच-बीच में तरंगें बालूघर को प्रवाहित कर देती है। यह खेल
चलता ही रहता है। समुद्र के तट न केवल पर्यटन के स्थान हैं
अपितु मछुआरे भी अपनी जीविका यहाँ चलाते हैं।
पाठः― अस्माकं देशे बहवः समुद्रतटा सन्ति । एतेषु मुम्बई गोवा कोच्चि–
कन्याकुमारी पुरी तटाः अतीव प्रसिद्धा सन्ति । गोवातटः
विदेशीपर्यटकेभ्यः समधिकं रोचते । विशाखापत्तनतट: वैदेशिकव्यापाराय
प्रसिद्धः । कोच्चितट: नारिकेलफलेभ्यः ज्ञायते। मुम्बईनगरस्य जुहूतटे
सर्वे जनाः स्वैरं विहरन्ति । चेन्नईनगरस्य मेरीनातटः देशस्य सागरतटेषु
दीर्घतमः
अर्थ― हमारे देश में बहुत समुद्रतट हैं। इनमें मुम्बई, गोवा, कोच्चि,
कन्याकुमारी, पूरी तट बहुत प्रसिद्ध है। गोवा का तट विदेशी
पर्यटकों के लिए अधिक अच्छा लगता है। विशाखापतनम् का
किनारा विदेशी व्यापार के लिए प्रसिद्ध है। कोच्चि तट नारियल
फल के लिए जाना जाता है। मुंबई के जुहू तट पर सभी लोग
बेरोक-टोक घूमते हैं। चेन्नई नगर का मेरीना तट देश के सागर तटों
में सबसे लंबा है।
पाठः― भारतस्य तिसृषु दिशासु समुद्रतटाः सन्ति । अस्मात् एव कारणात्
भारतदेशः प्रायद्वीपः इति कथ्यते । पूर्वदिशायां बङ्गोपसागरः
दक्षिणदिशायां हिन्दमहासागरः पश्चिमदिशायां च अरबसागरः अस्ति ।
एतेषां त्रयाणाम् अपिसागराणां सङ्गमः कन्याकुमारीतटे भवति ।
अत्र पूर्णिमायां चन्द्रोदयं सूर्यास्तं च युगपदेव द्रष्टुं शक्यते ।
अर्थ― भारत की तीनों दिशाओं में समुद्रतट है। इस कारण भारत देश
प्रायद्वीप कहा जाता है। पूर्व दिशा में बंगाल की खाड़ी, दक्षिण दिशा
में हिन्दमहासागर और पश्चिम दिशा में अरबसागर है। इन तीनों
सागरों का संगम कन्याकुमारी तट पर होता है। यहाँ पूर्णिमा में
चन्द्रोदय और सूर्यास्त एक साथ ही देख सकते हैं।
अभ्यासः
प्रश्न संख्या 1 और 2 शब्दार्थ एवं उच्चारण है।
3. अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत―
(क) जनाः काभिः जलविहारं कुर्वन्ति ?
(ख) कस्य तिसृषु दिशासु समुद्रतटाः सन्ति ?
(ग) बालकाः बालिका: बालुकाभिः किं रचयन्ति ?
(घ) कस्मात् कारणात् भारतदेशः प्रायद्वीपः इति कथ्यते ?
उत्तर― (क) जनाः नौकाभिः जलविहारं कुर्वन्ति ।
(ख) भारतस्य तिसृषु दिशासु समुद्रतटाः सन्ति ।
(ग) बालकः बालिकाः बालुकाभिः बालुका गृह रचयन्ति।
(घ) भारतस्य तिसृषु दिशासु समुद्रतटाः सन्ति इति कारणात्
भारतदेशः प्रायद्वीपः इति कथ्यते।
4. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत―
बङ्गोपसागरः प्रायद्वीपः पर्यटनाय बालुकागृह कन्याकुमारीतटे
(क) जनाः ............ समुद्रतटं आगच्छन्ति ।
(ख) भारतदेश: ......... इति कथ्यते ।
(ग) सागराणां सङ्गमः .......... भवति ।
(घ) बालकाः .............. रचयन्ति ।
(ङ) भारतस्य पूर्वदिशायां .................. अस्ति।
उत्तर― (क) पर्यटनाय
(ख) प्रायद्वीपः
(ग) कन्याकुमारी तटे
(घ) बालुकागृहम्
(ङ) बङ्गोपसागरः
5. तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत―
(क) विपुल: ................सह क्रीडति । (मित्र)
(ख) मृगाः ................सह चरन्ति । (मृग)
(ग) अश्वः .................सह धावन्ति । (अश्व)
(घ) अहमपि ................ पिबामि । (चषक)
(ङ) तडागः ................. विभाति । (कमल)
उत्तर― (क) मित्रैः
(ख) मृगैः
(ग) अश्वैः
(घ) चषकेण
(ङ) कमलैः
6. कोष्ठकात् उचितपदप्रयोगेण रिक्तस्थानानि पूरयत―
(क) धनिकः ..............धनं ददाति । (निर्धनम्/निर्धनाय)
(ख) सज्जनाः ................. जीवन्ति । (परोपकारम्/परोपकाराय)
(ग) ....................... नमः। (शिक्षकाय/शिक्षकम्)
(घ) शिक्षिका ....................... पारितोषिकं यच्छति ।
(छात्राणाम् छात्रेभ्यः)
(ङ) आरवः ...................... विद्यालयं गच्छति । (पठनाय/पठनेन)
उत्तर― (क) निर्धनाय
(ख) परोपकाराय
(ग) शिक्षकाय
(घ) छात्रेभ्यः
(ङ) पठनाय
7. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत―
(क) केचन कन्दुकेन क्रीडन्ति ।
(ख) अस्माकं देशे बहवः समुद्रतटाः सन्ति ।
(ग) अत्र मत्स्यजीविनः अपि स्वजीविकां चालयन्ति ।
(घ) एषः समुद्रतटः अस्ति ।
(ङ) अत्र जनाः पर्यटनाय आगच्छन्ति ।
उत्तर― (क) केचन केन क्रीडन्ति?
(ख) केषां देशे बहवः समुद्रतटाः सन्ति ?
(ग) अत्र मत्स्यजीविनः अपि का चालयन्ति ?
(घ) एषः कः अस्ति?
(ङ) अत्र के पर्यटनाय आगच्छन्ति ?
8. यथायोग्यं योजयत―
समुद्रतटः ज्ञानाय
क्रीडनकम् पोषणाय
दुग्धम् प्रकाशाय
दीपकः पर्यटनाय
विद्या परिधानाय
वस्त्रम् खेलनाय
उत्तर― समुद्रतटः पर्यटनाय
क्रीडनकम् खेलनाय
दुग्धम् पोषणाय
दीपकः प्रकाशाय
विद्या ज्ञानाय
वस्त्रम् परिधानाय
9. वर्णविन्यासं कुरुत―
पर्यटनाय .................
समुद्रतटः .................
भारतदेश: ................
स्वैरं ..................
जनाः .....…...........
उत्तर― पर्यटनाय ― प् + अ + र् + य + ट् + अ + न् + आ + य् + अ
समुद्रतटः ― स् + अ + म् + उ + द् + र + अ + त् + अ + ट + अ:
भारतदेशः ― भ् + आ + र् + अ + त + अ + द् + ए् + श् + अ
स्वैरं ― स् + व् + ऐ + र + अ + म्
जनाः― ज् + अ् + न + आ:
■■