Jharkhand Board Class 10 Sanskrit Notes | नाटयांशः
JAC Board Solution For Class 10TH Sanskrit Chapter 3
(इ) नाटयांशः
1. लव:― भ्रातरावावां सोदयौ।
रामः― समरूपः शरीरसन्निवेशः। वयसस्तु च किञ्चदन्तरम् ।
लव:― आवां यमलौ।
रामः― सम्प्रति युज्यते । किं नामधेयम् ?
लव:― आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि (कुशं निर्दिश्य)
आर्योऽपि गुरुचरणवन्दनायाम्.......... अहमपि कुश इत्यात्मानं
श्रावयामि।
राम:― अहो! उदात्तरम्यः समुदाचारः। किं नामधेयो भवतोर्गुरुः ?
लव:― ननु भगवान् वाल्मीकिः ।
राम:― केन सम्बन्धेन?
लव:― उपनयनोपदेशेन ।
रामः― अहमत्रभवतोः जनक नामतो वेदितुमिच्छामि ।
लव:― नहि जानाम्यस्य नामधेयम् । न कश्चिदस्मिन् तपोवने नाम व्यवहरति ।
प्रश्ना–I. एकपदेन उत्तरत–(एक पद में उत्तर दें) 1×2=2
(i) महर्षिः वाल्मीकिः लवकुशयोः कः आसीत् ?
(ii) लवकुशौ कीदृशी आस्ताम् ?
II. पूर्णवाक्येन उत्तरत । (पूर्णवाक्य में उत्तर दें।)
(i) महर्षिः वाल्मीकिः केन सम्बन्धेन लवकुशयोः गुरुः आसीत्?
II. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत । (दिए गए विकल्पों
में से उचित उत्तर चुनकर लिखें।)―
(i) 'इत्यात्मानम्' इति पदस्य संधि-विच्छेदं कुरुत
(क) इति + आत्मानम्
(ख) इति + मानम्
(ग) इत् + आत्मानम्
(घ) इती + आत्मानम् ।
(ii) 'इदानीम्' इत्यर्थे नाट्यांशे किं पदं प्रयुक्तम् ?
(क) तदानीम्
(ख) सम्प्रति
(ग) सर्वदा
(घ) तदा।
(iii) 'वेदितुम्' इत्यस्मिन् पदे कः प्रत्ययः?
(क) क्तवतु
(ख) क्त
(ग) क्तिन्
(घ) तुमुन् ।
(iv) प्रेरणार्थक क्रियायाः उदाहरणं लिखत ।
(क) व्यवहरति
(ख) इच्छामि
(ग) श्रावयामि
(घ) युज्यते ।
उत्तर: I. (i) गुरुः (ii) यमलौ/समरूपौ
II. महर्षि वाल्मीकिः उपनयनोपदेशसम्बन्धेन लवकुशयोः गुरुः आसीत् ।
III. (i) (क)इति + आत्मानम् (ii) (ख) सम्प्रति
(ii) (घ) तुमुन् । (iv) (ग) श्रावयामि।
2. उमौ― (अनिच्छां नाटयतः) राजन् ! अलमतिदाक्षिण्येन ।
राम:― अलमतिशालीनतया।
भवति शिशुजनो वयोऽनुरोधाद्
गुणमहतामपि लालनीय एवं
व्रजति हिमकरोऽपि बालभावात्
पशुपति-मस्तक-केतकच्छदत्वम् ।।
राम:― एष भवतोः सौन्दर्याचलोकजनितेन कौतूहलेन पृच्छामि
क्षत्रियकुलपितामहयोः सूर्यचन्द्रयोः को वा भवतोवंशस्य कर्ता ?
लव:― भवान् सहस्त्रदीधितिः।
राम:― कथमस्मत्समानाभिजनौ संवृत्तौ ?
प्रश्ना-I. एकपदेन उत्तरत-(एक पद में उत्तर दें।) 1×2=2
(i) कः अतिशालीनतां दर्शयति?
(ii) कः अतिदाक्षिण्य दर्शयति?
II. पूर्णवाक्येन उत्तरत । (पूर्णवाक्य में उत्तर दें।) 2
(i) रामः केन कारणेन वंशविषये पृच्छति ?
III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत । (दिए गए विकल्पों
में से उचित उत्तर चुनकर लिखें।)―
(i) 'लालनीयः' इति पदे कः प्रत्ययः प्रयुक्तः ?
(क) क्त्वा
(ख) शतृ
(ग) अनीयर्
(घ) तव्यत् ।
(ii) 'दाक्षिण्येन' इति पदे का विभक्तिः प्रयुक्ता ?
(क) पंचमी
(ख) तृतीया
(ग) प्रथमा
(घ) सप्तमी।
(iii) 'चन्द्र' इति शब्दस्य अन्यः पर्यायः चिनुत ।
(क) हिमकरः
(ख) दिनकरः
(ग) अंशुमान्
(घ) आदित्यः।
(iv) 'महतामपि' इति पदस्य संधि-विच्छेदं कुरुत ।
(क) महत् + अपि
(ख) महान् + अपि
(ग) महत् + तामपि
(घ) महताम् + अपि।
उत्तरः I. (i) लवकुशौ (ii) रामः।
II. रामः सौन्दर्यावलोकजनितेन कौतूहलेन वंशविषये पृच्छति ।
III. (i) (ग)अनीयर् (ii) (ख) तृतीया
(iii) (क) हिमकरः (iv) (घ) महताम् + अपि ।
3. कुश:―जानाम्यहं तस्य नामधेयम् ।
राम:― कथ्यताम्।
कुश:― निरनुक्रोशो नाम
रामः― वयस्य, अपूर्व खलु नामधेयम् ।
विदुषक:― (विचिन्त्य) एवं तावत् पृच्छामि निरनुक्रोश इति कः एवं भणति ?
कुश:― अम्बा।
विदुषकः― कि कुपिता एव भणति उत प्रकृतिस्था ?
कुश:― यद्यावयोर्बालभावजनितं किञदविनयं पश्यति तदा एवम् अधिक्षिपति
इति-निरनुक्रोशस्य पुत्रौ, मा चापलं कुरु ।
विदुषकः― एतयोर्यदि पितुरनुक्रोश इति नामधेयम् एतयोर्जननी तेनावमानिता
निर्वासिता एतेन वचनेन दारको निर्भत्स्यति ।
प्रश्ना-I. एकपदेन उत्तरत-(एक पद में उत्तर दें।) 1×2=2
(i) का निरनुक्रोश इति सम्बोधयति ?
(ii) कः बालकयोः मातुः नाम प्रष्टुमिच्छति ?
II. पूर्णवाक्येन उत्तरत । (पूर्णवाक्य में उत्तर दें।) 2
(i) किं दृष्ट्वा लवकुशयोः अम्बा अधिक्षिपति ?
III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत । (दिए गए विकल्प
में से उचित उत्तर चुनकर लिखें।)―
(i) 'जानाम्यहम्' इति पदस्य सधि-विच्छेदं कुरुत ।
(क) जानामी + अहम्
(ख) ज्ञा + अहम्
(ग) जानामि + अहम्
(घ) जानाति + अहम् ।
(ii) 'पृच्छामि' इति पदे मूल धातु कः?
(क) पृष्
(ख) दृश्
(ग) स्था
(घ) पा।
(iii) 'दारकौ' इति पदस्य समानार्थक शब्दं लिखत ।
(क) भ्रातरौ
(ख) पितरौ
(ग) भगिन्ये
(घ) पुत्रौ।
(iv) 'विचिन्त्य' इतिपदे कः प्रत्ययः अस्ति ।
(क) शानच्
(ख) ल्यप्
(ग) क्तवतु
(घ) तव्यत् ।
उत्तरः I. (i) अम्बा (ii) विदूषकः
II. यद्यावयोलभावजनितं किञिदविनयं दृष्ट्वा लवकुशयों: अम्बा
अधिक्षिपति ।
III. (i) (क) जानामि + अहम् (ii) (क) पृष्
(iii) (घ) पुत्रौ। (iv) (ख) ल्यप्
4. चाणक्य:― भो श्रेष्ठिन् ! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम् नन्दस्यै अर्थसम्बंध:
प्रीतिमुत्पादयति । चन्द्रगुप्तस्य तु भवतामपरिक्लं एव ।
चन्दनदासः― (सहर्षम्) आर्य ! अनुगृहीतोऽस्मि ।
चाणक्य:― भो श्रेष्ठिन् ! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता
प्रष्टव्या: स्मः।
चन्दनदास:― आज्ञापयतु आर्यः।
चाणक्य:― भवानेव तावत् प्रथमम् ।
चन्दनदासः― (कर्णी पिधाय) शान्तं पापम्, शान्तं पापम् । कीदृशस्तृणा नामग्निना
सह विरोधः?
चाणक्य:―अयमीदृशो विरोधः यत् त्वमद्यापि राजापथ्यकारिणोऽमात्य राक्षसस्य
गृहजनं स्वगृहे रक्षसि ।
चन्दनदासः― आर्य! अलीकमेत केनाप्यनार्येण आर्याय निवेदितम् ।
प्रश्ना-I. एकपदेन उत्तरत-(एक पद में उत्तर दें।) 1×2=2
(i) कः अनुगृहीतः जातः?
(ii) अग्निना सह केषां विरोधः न युज्यते ?
II. पूर्णवाक्येन उत्तरत । (पूर्णवाक्य में उत्तर दें।)
(i) कस्य गृहजनाः राजापवृयकारिणः आसन् ?
III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत । (दिए गए विकल्पों
में से उचित उत्तर चुनकर लिखें।)―
(i) 'भवता' इति पदे का विभक्तिः?
(क) तृतीया
(ख) सप्तमी
(ग) द्वितीया
(घ) पंचमी।
(ii) 'आज्ञायतु' इति किं पदम् अस्ति ।
(क) संज्ञा
(ख) विशेषणम्
(ग) सर्वनाम
(घ) क्रिया।
(iii) 'नन्दस्यैव' इति पदस्य संधि-विच्छेदं कुरुत ।
(क) नन्दस्य + इव
(ख) नन्दस्य + ऐव
(ग) नन्दस्य + एव
(घ) नन्दस्य + ईव।
(iv) 'असत्यम्' इति पदस् नाट्याशात् पर्यायं चिनुत् ।
(क) सत्यम्
(ख) अलीकम्
(ग) प्रथमम्
(घ) विरोधः।
उत्तर: I. (i) चन्दनदास: (ii) तृणानाम्
II. अमात्यराक्षसस्य गृहजनं राजापवृयकारिणः आसन् ।
III. (i) (क) तृतीया (ii) (ख) आज्ञापयतु
(iii) (ग) नन्दस्य + एव (iv) (ख) अलीकम्
5. चाणक्यः―अथेदानी क्व गतः?
चन्दनदास:― न जानामि।
चाणक्यः― कथं न ज्ञायते नाम ? भो श्रेष्ठि शिरसि भयम्, अतिदूर तत्प्रतिकारः।
चन्दनदास:―आर्य ! कि मे भयं दर्शयसि? सन्तमपि गेहे आमात्यराक्षसस्य
गृहजनान् न समर्पयामि, कि पुनरसन्तम्?
चाणक्य:― चन्दनदासः ! एष एव ते निश्चयः?
चन्दनदासः― बाढम्, एष एव मे निश्चयः।
चाणक्यः― (स्वागतम्) साधु! चन्दनदास साधु ।
प्रश्ना-I. एकपदेन उत्तरत-(एक पद में उत्तर दें।)
(i) प्रतिकारः कुत्र अस्ति?
(ii) क: भयं दर्शयति?
II. पूर्णवाक्येन उत्तरत । (पूर्णवाक्य में उत्तर दें।) 2
(i) कान् गृहे सन्तमपि चन्दनदासः चाणक्याय नसमर्पयितुम् इच्छति ?
III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत । (दिए गए विकल्पों
में से उचित उत्तर चुनकर लिखें।)―
(i) 'जानामि' इति पदे कः धातुः अस्ति?
(क) घ्रा
(ख) ज्ञा
(ग) पा
(घ) दा।
(ii) 'भद्रम्' इत्यर्थे कः शब्दः अत्र प्रयुक्तः?
(क) साधु
(ख) बाढम्
(ग) निश्चयः
(घ) कथम्।
(iii) 'निश्चयः' इति पदस्य संधि-विच्छेदं कुरुत ।
(क) निः + चयम्
(ख) निस् + चयः
(ग) निर् + चयम्
(घ) निः + चयः।
(iv) 'ज्ञायते' इति पदे कः लकारः ।
(क) लोट
(ख) विधिलिंग
(ग) लट्
(घ) लृट्।
उत्तरः I. (i) अतिदूरम् (ii) चाणक्यः
II. स्वमित्रस्य अमात्यराक्षस्य गृहजनान् सन्तमपि चन्दनदासः तान् समर्यपितुम्
न इच्छति ।
III. (i) (ख) ज्ञा (ii) (क) साधु
(iii) (घ) निः + चयः (iv) (ग) लट्
6. चन्दनदासः―(कर्णौं पिधाय) शान्तं पापम्, शान्तं पापम् कादृशस्तृणानामग्निना
सह विरोधः।
चाणक्य:― अयमीदृशो विरोधः यत् त्वमद्यापि राजापथ्य कारिणोऽमात्यराक्षसस्य
गृहजनं स्वगृहे रक्षसि।
चन्दनदासः― आर्य! अलीमेतत् । केनाप्यनार्येण आर्याय निवेदितम् ।
चाणक्यः― भो श्रेष्ठिन् ! अलमाशङ्कया। भीता: पूर्वराजपुरुषाः पौराणामनिच्छतामपि
गृहेषु गृहजनं निक्षिप्य देशान्तरं ब्रजन्ति । ततस्तत्प्रच्छादनं दोषमुत्पादयति ।
चन्दनदासः― एव नु इदम् । तस्मिन् समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन:
इति ।
प्रश्ना-I. एकपदेन उत्तरत-(एक पद में उत्तर दें।)
(i) तृणानाम् केन सह विरोध: घातकः भवति?
(ii) अलमाशङ्कया इति केन उक्तम् ?
II. पूर्णवाक्येन उत्तरत । (पूर्णवाक्य में उत्तर दें।)
(i) चाणक्यस्य मनसि चन्दनदासं प्रति का आशङ्कासीत्?
III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत । (दिए गए विकल्प
में से उचित उत्तर चुनकर लिखें।)―
(i) रक्षसि' इति क्रियापदस्य किं कर्तृपदम् ?
(क) अहम्
(ख) त्वम्
(ग) सः
(घ) सा।
(ii) 'आर्याय' इति पदम् कस्मै प्रयुक्तम् ?
(क) चाणक्याय
(ख) चन्द्रगुप्ताय
(ग) नन्दाय
(घ) चन्दनदासाय।
(iii) 'तस्मिन् समये' अनयोः पदयोः 'समये' किम् ?
(क) अव्ययम्
(ख) विशेषणम्
(ग) संयोजकः
(घ) विशेष्यम्।
(iv) 'निक्षिप्य' इति पदे कः प्रत्ययः प्रयुक्तः?
(क) क्त्वा
(ख) ल्यप्
(ग) अनीयर्
(घ) तव्यत्।
उत्तरः I. (i) अग्निना (ii) चाणक्येन
II. चाणक्यस्य मनसि आशंका आसीत् यत् अमात्यराक्षासस्यगृहजनाः
चन्दनदासस्य गृहे सन्ति ।
III. (i) (ख) त्वम् (ii) (क) चाणक्याय
(iii) (ख) विशेषणम् (iv) (ख) ल्यप्
◆●