Jharkhand Board Class 10 Sanskrit Notes | अपठित गद्यांशः
JAC Board Solution For Class 10TH Sanskrit Chapter 1
प्रश्नः अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत ।
(निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों का उत्तर संस्कृत में लिखें।)―
1. एकदा एकः नरः सरोवर-तटे अभ्रमत्। सः गम्भीर-चिन्तने रतः आसीत् ।
सहसा वानराणां शब्दैः तस्य ध्यानभंग: अभवत् । सः अपश्यत् यत्
रक्तवर्णाः अतिविकरालवानराः नातिदूरे असान् सः धावितुम् आरभत् । तं
धावन्तं दृष्ट्वा वानराः अपि अनुधावितवन्तः । भीतः सः तीव्रग्रत्या
धावितुम् आरभत् । मा धावत ! भयं तत्रैव स्थिरः भव' इति कस्यचित्
वृद्धजनस्य उच्चस्वरं श्रुत्वा सः तथैव अकरोत् । स्थिरं तं दृष्ट्वा वानराः
अपि तत्रैव स्थितवन्तः । साहसं कृत्वा निर्भीकदृष्टया सः वानरान् अपश्यत् ।
तं निर्भीकं दृष्ट्वा वानरसमूहः पलायितः । अहो आश्चर्यम् ! कीदृशः
चमत्कारः । अनेन अनुभवेन तस्य ज्ञान-चक्षुषी उन्मीलिते । तेन ज्ञायते यत्
आपत्तिभ्यः मुक्तिः दृढ़संकल्पेन, साहसेन धैर्येण च भवति न ताभ्यः
पलायनेन । जानन्ति भवन्तः एषः नरः कः आसीत्? एषः आसीत्
स्वामिविवेकानंदः।
I. एकपदेन उत्तरत । (एक पद में उत्तर दें।) 1×2=2
(i) क: महात्मा सरोवर-तटे भ्रमति स्म?
(ii) केषां शब्दैः विवेकानंदस्य ध्यानभंग: संजात:?
II. पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें।). 2×2=4
(i) वानराः कीदृशाः आसन् ?
(ii) आपत्तिभ्यः मुक्तिः कथं भवति?
III. निम्नलिखित प्रश्नानां समुचितं उत्तरं प्रदत्तविकल्पेभ्यः चित्वा
लिखत। ½×4=2
(i) अनेन अनुभवेन तस्य ज्ञान चक्षुषी समुन्मीलिते । अत्र 'तस्य'
सर्वनामपदं कस्मै प्रयुक्तम्?
(क) वृद्धाय (ख) जनाय (ग) वानराय (घ) नराय।
(ii) "समीपे' इत्यस्मिन् अर्थ कः शब्दः प्रयुक्त:?
(क) दूरे (ख) अतिदूरे (ग) निकटे (घ) नातिदूरे।
(iii) 'नेत्रे' इति पदस्य कः पर्यायः गद्यांशे प्रयुक्त:?
(क) चक्षुषी (ख) ज्ञान (ग) चक्षुः (घ) चक्षुषिः ।
(iv) अनुच्छेदे 'बन्धनम्' इति पदस्य किं विलोमपदं प्रयुक्तम् ?
(क) धैर्यम् (ख) साहसम् (ग) स्थिरम् (घ) मुक्तिः ।
IV. अस्य गद्यांशस्य कृते एक समुचितं शीर्षकं लिखत―
(इस गद्यांश के लिए एक समुचित शीर्षक लिखें)
उत्तर:I. (i) स्वामिविवेकानंदः (ii) वानराणां
II. (i) वानराः रक्तवर्णाः अतिविकरालाः आसन् ।
(ii) आपत्तिभ्यः मुक्तिः दृढ़संकल्पेन, साहसेन, धैर्येण च भवति ।
III. (i) (घ) नराय (ii) (घ) नातिदूरे
(iii) (क) चक्षुषी (iv) (घ) मुक्तिः।
IV. स्वामिविवेकानंदः।
2. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत । (निम्नलिखित
अनुच्छेद को पढ़कर दिए गए प्रश्नों का उत्तर संस्कृत में लिखें।)―
एकदा एकः कर्तव्यपरायणः नगररक्षकः इतस्ततः भ्रमन् एकम् अशीतिवर्षीयं
महापुरुषं दृष्टवान् । सः आम्रवृक्षस्य आरोपणे तल्लीनः आसीत् । इदं दृष्ट्वा
नगरक्षकः तं महापुरुषम् अवदत् अवलोकनेन प्रतीयते यत् यदा एषः वृक्ष:
फलिष्यति तदा भवान् जीवितः न भविष्यति । अतः किमर्थं वृथा परिश्रमं
कुर्वन्ति भवन्तः ? महापुरुषः हसित्वा अवदत्-पश्यन्तु एतान् फलयुक्तान्
वृक्षान्! एतेषाम् आरोपणं मया न कृतम् परं फलानि अहं खादित्वा सन्तुष्टः
भवामि । अतः यदा मम आरोपितस्य वृक्षस्य फलानि अन्ये खादिष्यन्ति, अहं
पुनः प्रसन्नः भविष्यामि । महापुरुषस्य वचनं श्रुत्वा तं सः नमस्कृत्य नगररक्षकः
उक्तवान् अनुकरणीया एवं सज्जनानां सज्जनता ।
I. एकपदेन उत्तरत । (एक पद में उत्तर दें।) 1×2=2
(i) नगररक्षकः कीदृशं महापुरुषं दृष्टवान् ?
(ii) महापुरुषः कस्य वृक्षस्य आरोपणे तल्लीनः आसीत्?
II. पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें।) 2×2=4
(i) नगररक्षकः अशीतिवर्षीयं महापुरुष कुत्र अपश्यत् ?
(ii) महापुरुषस्य वचनं श्रुत्वा नगररक्षकः किम् उत्त्वान्?
III. निम्नलिखितप्रश्नानां समुचितं उत्तरं प्रदत्तविकल्पेभ्यः चित्वा लिखत―
½×4=2
(निम्नलिखित प्रश्नाों को उत्तर दिए गए विकल्पों में से चुनकर लिखें।)
(i) 'नगरक्षकः' इति पदस्य विशेषणपदं किम् ?
(क) महापुरुषः (ख) कर्तव्यपरायणः (ग) कर्तव्यः
(घ) परायणः
(ii) अस्मिन् गद्यांशे 'व्यर्थम्' इत्यर्थे कः पर्यायः प्रयुक्तः?
(क) वृथा (ख) एकम् (ग) परिश्रम् (घ) कृतम्
(iii) 'अस्मिन् गद्यांश भविष्यामि' इति क्रियापदस्य कर्तृपदं लिखत ।
(क) पुनः (ख) अहम् (ग) प्रसन्नः (घ) अन्ये
(iv) 'खादित्वा' इति पदे कः प्रत्ययः अस्ति ?
(क) क्तवतु (ख) क्तिन् (ग) क्त्वा (घ) क्त
IV. अस्य गद्यांशय कृते समुचितं शीर्षकं लिखत ।
(इस गद्यांश के लिए उचित शीर्षक लिखें।)
उत्तर:I. (i) अशीतिवर्षीयं (ii) आम्रवृक्षस्य
II. (i) नगररक्षकः अशीतिवर्षीयं महापुरुषं उद्याने अपश्यत्
(ii) महापुरुषस्य वचनं श्रुत्वा नगररक्षकः उक्तवान् "अनुकरणीया एव
सज्जनानां सज्जनता।"
III. (ii)(ख) कर्तव्यपरायणः (iii) (क) वृथा।
(iii) (ख) अहम्
(iv) (ग) क्त्वा
IV. शीर्षक: अनुकरणीया एव सज्जनानां सज्जनता ।
3. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत (निम्नलिखित
अनुच्छेद को पढ़कर दिए गए प्रश्नों का उत्तर संस्कृत में लिखें।)―
एकदा केचन शिष्याः भिक्षाटनं कुर्वन्ति स्म । तदैव एकः गजः महता वेगेन
तस्मिन् मार्गे आगच्छत् । गजस्य उपरि उपविष्टः हस्तिपकः उच्चस्वरेण पुनः घोषयति
स्म-अपसरन्तु अपसरन्तु इति । सर्वे शिष्याः धावितवन्तः । यथा सर्वेषु वस्तुषु ईश्वरः
अस्ति तथा गजे अपि अस्ति इति विचिन्त्य एकः शिष्यः तत्रैव स्थितवान् । तावति
काले गजः तं स्वशुण्डया गृहीत्वा दूरे क्षिप्तवान्। शिष्याः तं मूर्छित गुरुकुलम्
अनयन् । लब्धसंज्ञं तं गुरुः अपृच्छत्-वत्स ! त्वम् एवं कथम् आचरः इति । शिष्यः
अवदत्-गुरुवर्य, भवन्दिः एव शिक्षितं यत् ईश्वरः सर्वेषु अस्ति अतः अहं गजे अपि
ईश्वरं मत्वा तत्र अतिष्ठम् इति । गुरुः उक्तवान्-वत्स । यथा गजे ईश्वरः अस्ति तथा
हस्तिपके अपि ईश्वरः इति कथं न चिन्तितम् ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दें।) 1×2=2
(i) गजः कं स्वशुण्डया गृहीत्वा क्षिप्तवान् ?
(ii) 'अपसरन्तु अपसरन्तु इति कः घोषयति स्म?
II. पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें।) 2×2=4
(i) एकः शिष्यः किं विचिन्त्य तत्रैव स्थितवान् ?
(ii) गुरोः प्रश्नस्य उत्तरं शिष्येण केन प्रकारेण दीयते ?
III. प्रदत्तवकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत । ½×4=2
(दिए गए विकल्पों में से उचित उत्तर चुनकर लिखें।)
(क) 'वेगेन' इति पदस्य किं विशेषणपदम् ?
(i) केचन (i) महता (iii) उपरि (iv) मत्वा
(ख) अपसरन्तु इति क्रियापदस्य कर्तृपदं किम् ?
(i) शिष्याः (ii) गुरुः (iii) हस्तिपकः (iv) ईश्वरः
(ग) 'अनयन्' इति पदे क: लकारः प्रयुक्तः?
(i) विधिलिंगः (ii) लट् (iii) लङ् (iv) लोट्
(घ) 'तत्रैव' इति पदस्य सन्धि-विच्छेदं कुरुत ।
(i) तत्र + ऐव (ii) तत् + एव (iii) तदा + एव
(iv) तत्र + एव
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
(इस अनुच्छेद के लिए उचित शीर्षक लिखें।)
उत्तर:I.
(i) शिष्याः
(ii) हस्तिपक:
II. (i) यथा सर्वेषु वस्तुषु ईश्वरः अस्ति तथा गजे अपि अस्ति इति विचिन्त्य
एक: शिष्यः तत्रैव स्थितवान् ।
(ii) भवन्दिः एवं शिक्षितं यत् ईश्वरः सर्वेषु अस्ति अतः अहं गजे अपि
ईश्वरं मत्वा तत्र अतिष्ठम् इति ।
III. (घ)(ii) महता
(ख) (iii) हस्तिपक:
(ग) (i) विधिलिंग (घ) (iv) तत्र + एव
IV. शीषर्क : शिक्षायाः उचितम् प्रयोगम् ।
4. राजा दिलीपः सूर्यवंशी नृपः आसीत् । सः विद्वान्, प्रजापालकः,पराक्रमी,
परिश्रमी च आसीत् । न्यायेन सः पितृवत् प्रजाः पालयति स्म। यदा
दिलीपः चिरं संततिम् न अलभत् तदा गुरूवसिष्ठस्य आश्रमम् अगच्छत ।
अत्र वसिष्ठः स्वशिष्यं दिलीपं कामधेनोः पुत्र्याः नन्दिन्याः सेवार्थम्
आदिदेश । दिलीपः स्वभार्यया सुदक्षिण्यसिंह एकविंशतिः दिवसपर्यन्तम्
गोसेवाम् अकरोत् । द्वाविशतितमे दिवसे एकः सहिः नन्दिन्याम् आक्रमत् ।
दिलीप: गोरक्षायै स्वशरीरम् एव समर्पितवान् । तदा नन्दिनी अतीव प्रसन्ना
अभवत् । नन्दिनी राज्ञे पुत्रप्राप्त्यै वरं च अददात् । नन्दिन्याः प्रसादेन
दिलीपः पुत्रवान् अभवत्।
I. एकपदेन उत्तरत । (एक पद में उत्तर दें।) 1×2=2
(i) कः सूर्यवंशी नृपः आसीत् ?
(ii) दिलीपः कस्य आश्रमम् अगच्छत् ?
II. पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें।) 2×2 =4
(i) कस्याः प्रसादेन दिलीपः पुत्रवान् अभवत् ?
(ii) दिलीपः कया सह गोसेवाम् अकरोत्?
III. यथानिर्देशम् उत्तरत (निर्देशानुसार उत्तर दें)― ½×4=2
(i) 'आश्रमम् अगच्छत्' अत्र 'अगच्छत्' इति क्रियापदस्य कर्तृपदं किम् ?
(क) विद्वान्
(ख) दिलीपः
(ग) वसिष्ठः
(घ) नन्दिनी।
(ii) 'तदा नन्दिनी अतीव प्रसन्ना अभवत्' अस्मिन् वाक्ये अव्ययपदं किम्
अस्ति?
(क) नन्दिनी
(ख) अभवत्
(ग) अतीव
(घ) प्रसन्ना
(iii) 'एकः सिंहः' अनयोः पदयोः सिंहः पदं किम्?
(क) विशेषणम्
(ख) संयोजक:
(ग) प्रविशेषणम्
(घ) विशेष्यम् ।
(iv) 'सुदक्षिण्या' इति का विभक्तिः प्रयुक्ता ?
(क) तृतीया
(ख) पंचमी
(ग) प्रथमा
(घ) सप्तमी।
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद के
लिए उचित शीर्षक लिखें।)
उत्तर:I. (i) दिलीपः
(ii) गुरुवसिष्ठस्य
(iii) एकविंशतिः
(iv) नन्दिनी
II. (i) नन्दिन्याः प्रसादेन दिलीपः पुत्रवान् अभवत् ।
(ii) दिलीपः स्वभार्यया सुदक्षिण्या सह गोसवाम् अकरोत् ।
III. (ii)(ख) दिलीपः
(iii) (ग) अतीव
(iii) (घ) विशेष्यम्
(iv) (क) तृतीया।
IV. राजा दिलीपस्य नन्दिनी-सेवा ।
5. बसयानेषु आवागमनं दिनानुदिनं यातनाप्रदम् एव परिकल्पते । अद्यत्वे
निजीबसयानेषु चालकाः यात्रिभ्यः आरोहणं तु अतिथिवत् श्रद्धया कारयन्ति,
यत्र तत्र बसयानम् अवरुध्य गन्तारम्, अगन्तारं वा आरोहणाय आह्वयन्ति,
'अतिथिदेवो भव' इति भारतीयपरम्परां सम्यक् पालयन्ति । यात्रिणः
स्वकार्यस्थल प्रति विलम्बिताः भवन्ति, भवन्तु चेत् परं तेषां अधिकाधिकानि
यात्रापत्राणि विक्रीतानि स्युः एव इत्येव तेषां मनसि वर्तते । एकवारं
जनानां बसयाने प्रविष्टे सति तेषाम् औदार्यं आधुर्यं च न जाने कुत्र याति ।
यात्रीणाम् अवतरणसमये तु विशेषतः एतावर्ती शीघ्रतां प्रदर्शयन्ति येन
प्रायशः दुर्घटनाः अपि भवन्ति । तस्मात् एतेषु बसयानेषु यात्रा महत्या
सावधानतया कर्तव्या। अस्माभिः सदैव स्मरणीयं यत् सावधानता दुर्घटनातः
श्रेयस्करी ।
I. एकपदेन उत्तरत । (एक पद में उत्तर दें।) 1×2=2
(i) बसयानेषु आवागमनं कथं परिकल्पते ?
(ii) यात्रीणाम् अवतरणसमये का प्रदर्शयन्ति ?
II. पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें।) 2×2=4
(i) यात्रीणां कृते का भारतीय-परम्परा अस्ति?
(ii) चालकानां मनसि किं वर्तते?
III. प्रदत्त विकल्पेभ्यः समुचिततम् उत्तरं चित्वा लिखत । ½×4= 2
(दिए गए विकल्पों में से उचित उत्तर चुनकर लिखें।)
(i) 'कष्टदायकं' इत्यर्थे कः प्रर्यायः गद्यांशे प्रयुक्तः?
(क) यातनाप्रदम्
(ख) भयप्रदम्
(ग) आनन्दप्रदम्
(घ) दुर्घटना।
(ii) 'सावधानतया' इति पदस्य विशेषणं चित्वा लिखत ।
(क) श्रेयस्करी
(ख) शीघ्रताम्
(ग) महत्या
(घ) औदार्यम् ।
(iii) 'कर्तव्या' इति पदे कः प्रत्ययः प्रयुक्त ?
(क) ल्यप्
(ख) कत्वा
(ग) अनीयर्
(घ) तव्यत्।
(iv) 'अस्माभिः' इति पदे मूल शब्दः कः अस्ति ?
(क) युष्मद्
(ख) अस्मद्
(ग) किम्
(घ) तत्।
IV. गद्यांशस्य कृते उपयुक्त शीर्षकं लिखत । (गद्यांश के लिए उचित
शीर्षक लिखें।)
उत्तर : I. (i) यातनाप्रदम्
(ii) शीघ्रताम् ।
II. (i) 'अतिथि देवा भव' यात्रीणं कृते भारतीय परंपरा अस्ति ।
(ii) अधिकाधिक यात्रापत्राणि विक्रीतानि स्युः इति चालकानां मनसि
भवति ।
III. (ii) (क) यातनाप्रदम्
(iii) (ग) महत्या
(iii) (घ) तव्यत्
(iv) (ख) अस्मद् ।
IV. शीषर्क : बस-यात्रा।
6. आदिकाव्यं रामायणं मम प्रियपुस्तकं अस्ति । भगवतो मर्यादापुरुषोत्तमस्य
श्रीरामचन्द्रस्य पावनं चरित्रं रामायणे प्राप्तयते। अस्य आदिकाव्यस्य
लेखक: महर्षिः वाल्मीकिः आसीत्। तस्य रचना 'आदिकाव्यम्' इति
वेदविदुर्षा मतम् । अत एव वाल्मीकिः आसीत् आदिकविः । रामायणम्
अनुष्टुप् छन्दसि लिखितम् । रामायणे श्लोकसंख्याचतुर्विशतिसहस्त्रम् वर्तते,
अस्मात् कारणात् रामायणं महाकाव्य 'चतुर्विशति-सहस्त्री-संहिता' इत्युच्यते
विद्वद्भिः । देवर्षिनारदस्य प्रेरणंया ब्रह्मणः वचनेन च आदिकविना इदं
काव्य विरचितम् । रामायणे 'बाल-अयोध्या-अरण्य-किष्किन्धा- सुन्दर-
युद्ध-उत्तर' इति सप्तकाण्डानि विद्यन्ते । रामयणे श्रीरामचन्द्रस्य नारायणा-
वताररूपेण वर्णनम् समुपलभ्यते ।
I. एकपदेन उत्तरत । (एक पद में उत्तर दें।) 1×2=2
(i) आदिकाव्यम् किम् अस्ति?
(ii) रामायणे कति काण्डानि सन्ति ?
II. पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें।) 2×2=4
(i) रामायणे श्रीरामस्य कीदृशं वर्णन प्राप्यते?
(ii) रामायणस्य सप्त काण्डानां नामानि लिखत?
III. निम्नलिखितप्रश्नानां समुचितं उत्तरं प्रदत्तविकल्पेभ्यः चित्वा लिखत ।
½×4=2
(दिए गए विकल्पों में से उचित उत्तर चुनकर लिखें।)
(i) रामायणस्य प्रणेता कः?
(क) वाल्मीकिः
(ख) वाणभट्टः
(ग) भवभूतिः
(घ) माघः।
(ii) 'प्राप्यते' इति पदे कः लकारः अस्ति ?
(क) लोट्
(ख) लृट्
(ग) लङ्
(घ) लट् ।
(iii) 'महर्षिः' इति पदे स्वर संधि कयोः वर्णयोः अभवत् ?
(क) अ + ऋ
(ख) आ + ऋ
(ग) आ + अर्
(घ) अ + अर्।
(iv) रचितम् इत्यर्थे कः समानार्थकः शब्दः प्रयुक्तः?
(क) पावनम्
(ख) पठितम्
(ग) लिखितम्
(घ) कविना।
IV. गद्यांशस्य कृते समुचितम् उत्तरं चित्वा लिखत । 2
उत्तर : I. (i) रामायणम्
(ii) सप्त ।
II. (i) रामायणे श्रीरामस्य पावनं चरित्रं वर्णनं प्राप्यते ।
(ii) रामायणे बाल-अयोध्या-अरण्य-किष्किन्धा- सुन्दर-युद्ध-उत्तर इति
सप्त काण्डानि सन्ति ।
III. (ii)(क) वाल्मीकिः
(iii) (घ) लट् ।
(iii) (ख) आ + ऋ
(iv) (ग) लिखितम्
IV. शीषर्क : आदिकाव्यं रामायणम् ।
7. पुरा गुर्जरप्रदेशे एकस्मिन् ग्रामे एक गुरुकुलम् आसीत् । तत्र शतत्रयं छात्राः
गुरुभ्यः अनेकान् विषयान् पठन्ति स्म । तेषां भोजनादिव्यवस्था। एका
नगरस्थितां संस्था अकरोत् । एकदा संस्थाधिकारिणः छात्रेम्यः एक वैद्यं
प्रेषितवन्तः । सः त्रीन् मासान् यावत् तत्र अवसत् किन्तु कोऽपि रुग्णः रोगी
न भवति ? प्रधानाचार्यः विहस्य अवदत्-वैद्यराजः अस्य एकम् रहस्यम्
अस्ति । अत्र सर्वे तदा भोजनं कुर्वन्ति, यदा ते तीव्रक्षुधाम् अनुभवन्ति ।
यदा तेषां भोजनेन तृप्तिः भवति, ततः पूर्वम् एवते ते भोजनं त्यजन्ति ।
एतत् एव एतेषां स्वास्थ्यस्य रहस्यम् । भवान् जानाति एव यत् स्वस्थाः
नराः न सेवन्ते । तद्वचनं श्रुत्वा वैद्यः हसित्वा अवदत्-अत्रं मम उपयोगः
नास्ति । अहं गच्छामि । ममोपयोगः अतः गच्छाम्यहं । नमस्कारः । यत्र रोगः
तत्र वैद्यः
I. एकपदेन उत्तरत । (एक पद में उत्तर दें।) 1×2=2
(i) वैद्यं गुरुकुल प्रति के प्रेषितवन्तः ?
(ii) कस्य समीपं रुग्णाः न अगच्छन् ?
II. पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें।) 2×2=4
(i) किम् अत्र कोऽपि रोगी न भवति ।' इति कन पृष्टम्?
(ii) छात्राणां स्वास्थ्यस्य रहस्यम् किम् आसीत् ?
III. प्रदत्त विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत । (दिए गए
विकल्पो मे से उचित उत्तर चुनकर लिखें।)― ½×4=2
(i) गुर्जरप्रान्तस्य ग्रामे किम् आसीत्?
(क) गुरुकुलम्
(ख) शिष्यकुलम्
(ग) आचार्य-आस्पदम्
(घ) शिक्षालयः ।
(ii) 'हसित्वा' इति अर्थे कि पदं प्रयुक्तम् ?
(क) आकर्य
(ख) प्रणम्य
(ग) निशभ्य
(घ) विहस्य।
(iii) सः त्रीन् अवसत् । (रिक्तस्थानं पूरयत ।)
(क) प्रहरम्
(ख) वर्षान्
(ग) मासान्
(घ) होरा।
(iv) 'स्वस्थः' इति पदस्य विलोमपदं लिखत ।
(क) धनिकः
(ख) रुग्णः
(ग) बलवान्
(घ) वैद्यः।
IV. गद्यांशस्य कृते समुचितं शीर्षक लिखत । (गद्यांश के लिए उचित
शीर्षक लिखें।)— 2
उत्तर : I. (i) संस्थाधिकारिणः (ii) वैद्यस्य ।
II. (i) किम् अत्र कोऽपि रोगी न भवति इति वैद्यराजेन पृष्ट ।
(ii) सर्वे छात्राः यदा तीव्रक्षुधाम् अनुभवन्ति स्म तदा ते खादन्ति ।
III. (i)(क) गुरुकुलम्
(iii) (घ) विहस्य
(ii) (ग) मासान्
(iv) (ख) रुग्णः
IV. शीर्षक-गुरुकुलम्/स्वास्थ्य- रहस्यम् ।
8. आदिकालाद् एव मानवजीवने वृक्षाणां महत्त्वं वर्तते । अग्नेः आविष्कारात्
पर्यावरणप्रदूषणस्य प्राबलता जाता । अस्य प्रदूषणस्य निवारणे वृक्षाः एवं
समर्थाः सन्ति । अतः अस्मिन् विषमे काले वृक्षाः एव अस्माकं शरणम् ।
वृक्षाः पर्यावरणे सन्तुलननं सम्पादयन्ति । दिनकरस्य प्रकाशे ते
कार्बनडाई-आक्साइड-नामकस्य वायोः गृहन्ति आक्सीजनवायुं च
विसृजन्ति । भूमेः तापमानस्य नियंत्रणे सहायतां चापि कुर्वन्ति । अतः
अस्माभिः अवश्यमेव वृक्षाः रक्षणीयाः आरोपणीयाः च । यतः वृक्षान्
विना पृथिव्यां जीवनस्य कल्पनापि व्यर्था प्रतीयते ।
I. एकपदेन उत्तरत । (एक पद में उत्तर दें।) 1×2=2
(i) प्रदूषणनिवारणे के समर्थाः सन्तिः?
(ii) अस्माभिः के आरोपणीयाः?
II. पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें।) 2×2=4
(i) वृक्षान् विना कस्य कल्पना व्यर्थास्ति ?
(ii) कस्य आविष्कारात् प्रदूषणस्य प्रबलता जाता ?
III. यथानिर्देशम् उत्तरत । (निर्देशानुसार उत्तर दें ) ½×4=2
(i) वृक्षाः पर्यावरणे सन्तुलनं सम्पादयन्ति ।' अत्र 'सम्पादयन्ति' क्रियायाः
कर्तृ पदं किम् ?
(क) वृक्षाः
(ख) पर्यावरणे
(ग) सन्तुलनं
(घ) दिनकरः।
(ii) 'सन्ति' इति क्रियापदे का धातुः?
(क) स्था
(ख) भू
(ग) अस्
(घ) घ्रा।
(iii) 'विषमे काले' अनयोः पदयोः 'विषमे' किम् अस्ति ?
(क) सर्वनाम:
(ख) विशेषणम्
(ग) विशेष्यम्
(घ) क्रिया विशेषणम् ।
(iv) 'अग्नेः' इत्यस्मिन् पदे का विभक्तिः प्रयुक्ता?
(क) द्वितीया
(ख) सम्बोधन
(ग) चतुर्थी
(घ) षष्ठी।
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद के
लिए उचित शीर्षक लिखें।)— 2
उत्तरः I. (i) वृक्षाणां
(ii) वृक्षाः
II. (i) वृक्षान् विना पृथिव्या जीवनस्य कल्पना व्यास्ति।
(ii) आग्ने: आविष्करात प्रदूषणस्य प्रबलता जाता।
III. (ii) (क) वृक्षाः
(iii) (ग) अस
(iii) (ख) विशेषणम्
(iv) (घ) पष्ठी
IV. मानवजीवने वृक्षाणां महत्वं ।
19. वर्तमानयुगं विज्ञानमयम् । अस्माकं सर्वासु क्रियासु विज्ञानतत्वानि एव
विराजन्ते । पठनक्रियाम् एव पश्चन्तु । अस्मिन्पि विज्ञानस्य सिद्धान्ताः
अनिवार्यरूपेण अनुकरणीयाः । यदि न करिप्यामः तर्हि नेत्रयों: विकार:
भवितुं शक्नोति । यदि पुस्तकं नेत्रयोः अति समीपे भवति तर्हि अस्माभिः
तत् पठितुं न शक्यते । यदा पुस्तकं अतिदुरे भवति तदापि पठनं दुष्कर
भवति । नेत्रविशेषज्ञः कथयन्ति यत् प्रायः पञ्चविंशतिसेण्टिमीटरमितं दूरम्
अन्तरं सीमचीनं भवति । तावद् दूरं पुस्तकं गृहीत्वा पठने यादि बाधा न
अस्ति तदा शोभनं परन्तु यदि न पठ्यतें तदा नेत्रचिकित्सकस्य समीप
गत्वा नेत्रपरीक्षणं कारयेत् अन्यथा नेत्रदृष्टिः दुर्बला भवेत् । अपि च
श्यानाः न पठेत् । प्रतिदिनं सूर्योदये नेत्रव्यायामः करणीयः येन वृद्धावस्थायाम्
अपि उपनेत्रस्य आवश्यकता न भवेत् ।
I. एकपदेन उत्तरत । (एक पद में उत्तर दें।) 1×2=2
(i) वर्तमानयुगं की दृशम् अस्ति ?
(ii) नेत्रव्यायामः कदा करणीयः?
II. पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें।) 2×2=4
(i) यदा पुस्तकम् अति दूरं भवति तदा किं भवति?
(ii) उपनेत्रस्य आवश्यकता किमर्थ भवति ?
III. प्रदत्त विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत । (दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।) ½×4 =2
(i) 'अतिसमीपम्' इति पदस्य विलोमपदं लिखत―
(क) अतिदुर्बलम्
(ख) अतिशीघ्रम्
(ग) अतिदूरम्
(घ) अतिदुष्करम्
(ii) 'शयानः' इति पदे कः प्रत्ययः अस्ति ।
(क) शानच्
(ख) शत
(ग) क्त
(घ) वितन् ।
(iii) 'दुर्बला नेत्रदृष्टिः' अनयोः पदयोः 'दुर्बला' किम् ?
(क) प्रविशेषणम्
(ख) अव्ययः
(ग) विशेष्यम्
(घ) विशेषणम् ।
(iv) 'शक्नोति' इति पदे कः लकारः?
(क) विधिलिंग
(ख) लट्
(ग) लोट
(घ) पलङ् ।
IV. गद्यांशस्य कृते समुचितम् शीर्षक लिखत―
(गद्यांश के लिए उपर्युक्त शीर्षक लिखें।)― 2
उत्तर : I. (i) विज्ञानमयम्
(ii) प्रातः काले।
II. (i) यदा पुस्तकम अति दूरं भवति तदा पठनं दुष्करं भवति ।
(ii) यदा नेत्रदृष्टिः दुर्बला भवति तदा उपनेत्रस्य आवश्यकता जायते ।
III. (ii)(ग) अतिदूरम्
(iii) (क) शानच्
(iii) (घ) विशेषणम्
(iv) (ख) लट्
IV. पठनस्य विधि:/नेत्रपरीक्षणम् ।
10. वैज्ञानिकाः सञ्जारसाधनेषु प्रतिदिनं नवीनतमान् आविष्कारान् कुर्वन्ति येन
सन्देशप्रेषणे अधिकतमा सुविधा स्यात् । चलभाषितयन्त्रम् (मोबाइल
सेलफोन ) तादृशम् एव लोकप्रिययन्त्रम् । बालाः, वृद्धाः, युवकाः, पुरुषाः,
महिलाः, नागरकिाः, ग्रामीणाः कर्मकाराः च सर्वेषाम् एव एतत् कर्णभूषणं
जातम् । यानानि आरुढाः, कार्यालयेषु कार्य कुर्वन्तः, मार्गेषु चलन्तः,
सभागारेषु प्रवचनं अण्वन्तः जनाः अस्य ध्वनिं श्रुत्वा वार्तामग्नाः भवन्ति ।
अविवेकपूर्णः अस्य प्रयोगः कार्येषु व्यवधानं करोति । मार्गेषु दुर्घटनाः
भवन्ति । सभागारेषु, कक्षासु, अन्यस्थानेषु च अव्यवस्थां भवंति । सत्यम्
अस्ति यत् आविष्कारः कदापि हानिकरः न, परन्तु तस्य दुष्प्रयोगेण
जीवनस्य शान्तिः नश्यति । वस्तुतः वयं यन्त्रस्य अधीनाः न स्याम अपितु
यन्त्रम् अस्माकम् अधीनं स्यात् । ते एव बुद्धिमन्तः ये विज्ञानस्य सदुपयोगं
कुर्वन्ति ।
I. एकपदेन उत्तरत । (एक पद में उत्तर दें।) 1×2=2
(i) आधुनकि युगे किं लोकप्रियं यन्त्रम ?
(ii) के विज्ञानस्य सदुपयोंग कुर्वन्ति ?
II. पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें।) 2×2 = 4
(i) चलभाषितयन्त्र केषां कर्णभूषणं जातम्?
(ii) कक्षासु यन्त्रस्य ध्वनिना किं भवति?
III. प्रदत्त विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत― (दिए गए
विकल्पों में से उचित उत्तचुनकर लिखें।) ½×4=2
(i) 'विवेकपूर्णः' इति पदस्य विलोमपदं लिखत―
(क) परिपूर्णः
(ख) शान्तिपूर्णः
(ग) अविवेकपूर्णः
(घ) व्यर्थम् ।
(ii) 'नागरिकाः' इति पदे कः प्रत्ययः प्रयुक्त:?
(क) ठक्
(ख) तल्
(ग) इन्
(घ) मतुप् ।
(iii) 'सर्वोषम्' इति पदे का विभक्तिः अस्ति?
(क) चतुर्थी
(ख) पञ्चमी
(ग) द्वितीया
(घ) षष्ठी।
(iv) 'अधिकतमा सुविधा' अनयोः पदयोः 'अधिकतमा' का अस्ति?
(क) क्रिया विशेषणम्
(ख) विशेषणम्
(ग) विशेष्यम्
(घ) सर्वनाम।
IV. गद्यांशस्य कृते समुचितम् शीर्षकं लिखत―
(गद्यांश के लिए उपयुक्त शीर्षक लिखें।)― 2
उत्तर : I. (i) चलभाषितयंत्रम्
(ii) बुद्धिमन्तः।
II. (i) चलभाषितयंत्रम् बालाः, वृद्धाः, युवकाः, पुरुषाः, महिलाः, नागरिकाः,
ग्रामीणाः कर्मकराः च सर्वेषां कर्णभूषणं जातम् ।।
(ii) कक्षासु यन्त्रस्य ध्वनिना अव्यवस्था भवति ।
III. (ii) (ग) अविवेकपूर्णः
(iii) (क) ठक्
(iii) (घ) षष्ठी।
(iv) (ख) विशेषणम्
IV. शीर्षक:-चलभाषितयन्त्रम् ।
11. संसारे बहुमूल्यानि वस्तूनि विद्यन्ते परं तेषु समयः सर्वाधिक बहुमूल्यं
मन्यते । विस्मृता विद्या अभ्यासेन पुनः लब्धुं शक्यते, विष्टं धनम् अपि
प्रयत्नेने उपार्जयितुं शक्यते, सत्कर्मणा विनष्टं यसोऽपि लब्धुं शक्यते परं
विनष्टः समयः सहस्त्रैरपि प्रयत्नैः पुनः दुर्लभ एव । तस्मात् तथा प्रयत्नः
कर्त्तव्यः यथा एकमपि क्षणं निरर्थकं न स्यात् । समयः स्वल्पः अस्ति,
कर्त्तव्यानि च बहूनि । अतः ये जनाः समयस्य सदुपयोगं न कुर्वन्ति ते
बुद्धिमन्तः सन् अपि मूर्खाः एव । अस्माकं देशे बहवः जनाः समयस्य
दुरूपयोगं कुर्वन्ति । एवं न ते स्वार्थं साधयन्ति न च परार्थम् । अस्माकं
भारतीयानां कृते अयं राष्ट्रनिर्माणस्य कालः वर्तते । अस्माभिः तु विशेष-रूपेण
समयस्य सदुपयोगे ध्यानं दातव्यं येन राष्ट्रस्य शीघ्रतया समुन्नतिः स्यात् ।
छात्रैः तु अस्मिन् विषये विशेषतया ध्यान देयं यतः ते एव भारतस्य
भाविनः कर्णधाराः भाग्यविधातारः च सन्ति ।
I. एकपदेन उत्तरत । (एक पद में उत्तर दें।) 1×2=2
(i) विनष्टं यशः केन लब्धुं शक्यते ?
(ii) संसारे सर्वेषु वस्तुषु सर्वाधिक बहुमूल्यं किमस्ति ?
II. पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें।) 2×2=4
(i) अयं कस्य काल: वर्तते ?
(ii) भाविनः कर्णधारा: के सन्ति ?
III. यथानिर्देशम् उत्तरत (निर्देशानुसार उत्तर दें)-― ½×4 =2
(i) 'मूर्खाः' इति पदस्य विलोमपदं गद्यांशात् चित्वा लिखत―
(क) जनाः
(ख) छात्राः
(ग) बुद्धिमन्तः
(घ) कालः।
(ii) 'बहुमूल्यानि वस्तूनि' अनयोः पदयोः 'वस्तूनि' किम् अस्ति ?
(क) अव्ययम्
(ख) संज्ञा
(ग) विशेषणम्
(घ) समुच्चयबोधकः
(iii) 'समुन्नतिम्' इति पदस्य संधि-विच्छेदं कुरुत ।
(क) सम् + उन्नतिम्
(ख) सत् + उन्नतिम्
(ग) सम् + अवनतिम्
(घ) सम् + नतिम् ।
(iv) 'उपार्जयितुम्' इति पदे कः प्रत्ययः ?
(क) क्तवतु
(ख) शानच
(ग) क्त्वा
(घ) तुमुन् ।
IV. इस अनुच्छेद के लिए उचित शीर्षक लिखें।—
उत्तर : I. (i) सत्कर्मणा
(ii) समय:
II. (i) अयं राष्ट्रनिर्माणस्य कालः वर्तते ।
(ii) छात्राः भाविनः कर्णधाराः सन्ति ।
III. (ii)(ग) बुद्धिमन्तः
(iii) (ख) संज्ञा
(iii) (क) सम् + उन्नतिम्
(iv) (घ) तुमुन्
IV. समयस्य महत्वं ।
12. आतंकवादः आधुनिक विश्वस्य गुरुतमा समस्या अस्ति । संसारस्य प्रत्येक
देशः आतंकवादेन येन केन प्रकारेण पीड़ितः अस्ति । आतंकवादः
विनाशस्य सा लीला या विश्वम् ग्रसितुम् तत्परा अस्ति । आतंकवादेन
विश्वस्य अनेकानि क्षेत्राणि रक्तविलिप्तानि सन्ति । अनेन अनेके निर्दोषाः
जनाः प्राणान् अत्यजन् । महिलाः विधवाः जाताः, बालाश्च अनाथा
अभवन् । सर्वशक्तिमान् अमेरिका देशोऽपि अनेन संतप्तः अस्ति । भारतं
तु आतंकवादेने अनेकैः वर्षेः पीडितः वर्तते । आतंकवादे तू ते एव जनाः
सम्मिलिताः सन्ति ये स्वार्थपूर्तिम् कर्तुम् इच्छन्ति, संसारे च अशान्तेः
वातावरणं द्रष्टुम् कामयन्ते । शान्तीच्छुकैः देशैः आतंकवादस्य राक्षसस्य
विनाशाय मिलित्वा एव प्रयत्नाः समाधेयाः अन्यथा एषा समस्या सुरसामुखम्
इव प्रतिदिनं वृद्धिं यास्यति ।
I. एकपदेन उत्तरत । (एक पद में उत्तर दें।) 1×2=2
(i) आतंकवादः कस्य लीला अस्ति?
(ii) एषा समस्या किम् इव वृद्धिं यास्यति ?
II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।) 2×2=4
(i) आतंकवादेने महिलानां बालानां च का दशा अभवत् ?
(ii) आतंकवादे कीदृशाः जनाः सम्मिलिताः ?
III. प्रदत्त विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत । ½×4=2
(दिए गए विकल्पों में से उचित उत्तर चुनकर लिखें।)
(i) 'गुरुतमा' इति पदे कः प्रत्ययः प्रयुक्तः ?
(क) तरप्
(ख) तल्
(ग) तमप्
(घ) त्व।
(ii) 'विनाशस्य लीला विश्व तत्परा । (रिक्तस्थानं पूरयत)
(क) ग्रसितुम्
(ख) ज्ञातुम्
(ग) कर्तुम्
(घ) चेतुम् ।
(iii) 'यास्यति' इति पदे कः लकारः?
(क) विधिलिंग
(ख) लृट्
(ग) लोट
(घ)लङ् ।
(iv) 'स्वार्थ' इति पदस्य सन्धि-विच्छेदं लिखत-
(क) स्व + आर्थ
(ख) स्वा + अर्थ
(ग) सु + अर्थ
(घ) स्व + अर्थ।
IV. गद्यांशस्य कृते समुचितम् शीर्षकं लिखत―
(गद्यांश के लिए उपर्युक्त शीर्षक लिखें।)―
उत्तरः I. (i) विनाशस्य
(ii) सुरसामुखम्।
II. (i) आतंकवादेने महिलाः विधवाः जाताः बालाश्च अनाथाः अभवन् ।
(ii) आतंकवादे तु ते एव जनाः सम्मिलिताः सन्ति ये स्वार्थपूर्तिम् कर्तुम्
इच्छन्ति, संसारे च अशान्तेः वातावरणं द्रष्टुम् कामयन्ते ।
III. (ii)(ग) तमप्
(iii) (क) ग्रसितुम्
(iii) (ख) लृट्
(iv) (घ) स्व + अर्थ।
IV. शीर्षकः-आतंकवादः ।
13. मानवः जीवने सुखं वाञ्छति । सुखं कुत्र अस्ति, कुतः वा प्राप्यते ? कचन
मन्यन्ते धनेन सुखं भवति । अद्यत्वे धनमेव सर्वस्वं जातम् । धनविहीनः
पशुसमानः इत्येव भावना प्रबला जाता परन्तु धनिषु अपि सन्तोषः नास्ति ।
ते अधिकाधिक धनम् इच्छन्ति, अधिकाधिकाः च दुःखिनः भवन्ति ।
सन्तोषस्य, कष्टस्य, दुःखस्य वा हेतुः मनः । यदि मनः प्रसन्नं भवति तदा
सुखं भवति । मनः सन्तोषेण प्रसन्नं भवति अन्यथा लालसा वधत, सुखच
नश्यति । सन्तोषः प्राप्यते त्यागतः, परोपकरातः च। यदा धन, बुद्धिः
अन्यस्य कृते उपयुज्यते तदा आनन्दः भवति । साहाय्यप्रवृत्तिः अस्मान
जीवनस्य अङ्ग भवेत् । अस्माकं व्यवहारः प्रीतिपूर्णः भवेत्। अस्माकं
वाण्यां माधुर्यं भवेत् तदा मनः संतुष्टं भवति । मनसि च परितुष्टे जीवन
भवति सुखमयम् आनन्दपूर्णं च ।
I. एकपदेन उत्तरत । (एक पद में उत्तर दें।) 1×2=2
(i) अस्माकं व्यवहारः कीदृशः भवेत् ?
(ii) केन सुखं भवति इति नराणां धारणा अस्ति?
II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।) 2×2=4
(i) अद्यत्वे धनविहीनानां कृते कीदृशी भावना प्रबला जाता?
(ii) नैरः कदा आनन्दं अनुभूयते ?
III. प्रदत्त विकल्पेभ्यः समुचिततम् उत्तरं चित्वा लिखत । ½×4=2
(दिए गए विकल्पों में से उचित उत्तर चुनकर लिखें।)
(i) 'मनसि' इति पदे का विभक्तिः?
(क) संबोधन
(ख) सप्तमी
(ग) चतुर्थी
(घ) प्रथमा।
(ii) मानवः जीवने सुखं वाञ्छति ? अत्र कर्तृपदं किम्?
(क) वाञ्छति
(ख) जीवने
(ग) सुखम्
(घ) मानवः।
(iii) 'इच्छति' इति पदे कः धातु अस्ति?
(क) इष्
(ख) दृश्
(ग) घ्रा
(घ) स्था।
(iv) 'नास्ति' इति पदस्य सन्धि-विच्छेदं कुरुत ?
(क) ना + अस्ति
(ख)न + आसीत्
(ग) न + अस्ति
(घ) न् + अस्ति।
IV. गद्यांशस्य कृते उपयुक्तं शीर्षकं लिखत । (गद्यांश के लिए उपयुक्त
शीर्षक लिखें।)―
उत्तरः I. (i) प्रीतिपूर्णः
(ii) धनेन् ।
II. (i) धनविहीनाः पशुसमानाः इत्येव भावना प्रबला जाता ।
(ii) यदा धनं, बुद्धिः अन्यस्य कृते उपयुज्यते तदा आनन्दः भवति ।
III. (ii) (ख) सप्तमी
(iii) (घ) मानवः
(iii) (क) इ
(iv) (ग) न + अस्ति ।
IV. शीर्षक:-सुखी जीवनम् ।
14. परीक्षायाः दिनानि अतिविचित्राणि भवन्ति । यथा-यथापरीक्षाकालः समीपम्
आयाति तथा तथैव छात्राणां हृदयगतिः वर्धते । परीक्षा प्रायशः भयप्रदा
एव प्रतीयते । अस्मिन् काले न निद्रैव आयाति न च हृदयं धारयितुं
शक्यते । बुभुक्षा अपि सम्यक् प्रकारेण नानुभूयते । कदाचित् करिश्चत्
विषये अभ्यासाल्पता प्रतीयते कदाचिच्च अन्यस्मिन् । मस्तिष्कः सदैव
तनावयुक्तः एव प्रतीयते । न कवेलं छात्राणां अपितु तेषाम् अभिभावकानामपि
दशा एतादृशी एव भवति, परन्तु ये छात्राः उत्तमाः भवन्ति वर्षस्य
प्रारम्भात् एव पठितस्य अभ्यासं कुर्वन्ति, कक्षायां दत्तावधानाः तिष्ठन्ति
सर्वे पाठ्यक्रम पठित्वा परीक्षातः प्राक् पौनः पुन्येन अभ्यासं पुनरावृत्तिं
चापि कुर्वन्ति ते सर्वथा शान्तमनसा परीक्षाम्बुधिं तरन्ति । अतः सर्वैः एव
छात्रैः एवमेव करणीयम । तदैव ते परीक्षाभयात् मुक्ताः भूत्वा परीक्षासु
सदैव सफलाः भवन्ति । सत्यमेवोक्तम् – "परिश्रमेण साफल्यं लभ्यते ।"
I. एकपदेन उत्तरत । (एक पद में उत्तर दें।) 1×2=2
(i) परीक्षायाः दिनानि कीदृशानि भवन्ति ?
(ii) कः सदैव तनावयुक्तः प्रतीयते ?
II पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।) 2×2=4
(i) परीक्षाकाले किं किं भवति ?
(ii) उत्तमाः छात्राः किं किं कुर्वन्ति ?
III. यथानिर्देशम् उत्तरत । (निर्देशानुसार उत्तर दें।) ½×4=2
(i) 'आयाति' इति क्रियापदस्य कर्तृपदं किम्?
(क) अभिभावक:
(ख) परीक्षाकाल:
(ग) तनावयुक्तः
(घ) अभ्यासं।
(ii) 'परीक्षाम्बुधिम्' इत्यस्य पदस्य सन्धि-विच्छेदं कुरुत।
(क) परिक्षा + अम्बुधिम्
(ख) परीक्षा + अम्बुधीम्
(ग) परीक्षाम् + बुद्धिम्
(घ) परीक्षा + अम्बुधिम्।
(iii) 'अनभ्यासः' इति पदे कः समासः?
(क) नञ्
(ख) कर्मधारयः
(ग) बहुब्रीहिः
(घ) तत्पुरुषः।
(iv) 'वर्धते' इति पदे कः लकारः अस्ति?
(क) लृट्
(ख) लट्
(ग) लोट्
(घ) लङ् ।
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखता।
उत्तर : I. (i) अतिविचित्राणि
(ii) मस्तिष्कः
II. (i) अस्मिन्काले न निद्रव आयाति, न च हृदयं धारयितुं शक्तये,
बुभुक्षाऽपि च सम्यकप्रकारेण नानुभूयते ।
(ii) उत्तमाः छात्राः वर्षस्य प्रारम्यात् एव पठितस्य अभ्यासं कुर्वन्ति,
कक्षायां तावधानाः तिष्ठन्ति, सर्व पाठ्यक्रम पठित्वा परीक्षात:
प्राक् पौनः पुन्येन अभ्यास पुनरावृति चापि कुर्वन्ति ।
III. (i)(ख) परीक्षाकालः
(iii) (ख) परीक्षा + अम्बुधीम्
(iii) (क) नञ्
(iv) (ख) लट्
IV. परीक्षाकाल:/परीक्षाकाले छात्रेषु तनावः तस्योपायश्च ।
15. स्वदेशस्य कृते जनानां हृदये यः आदरः स एव 'देशभक्तिः' अथवा
'स्वदेश-प्रेम' कथ्यते । निजं देशं प्रति मनुष्याणां मनसि आदरः निसर्गतः
एव भवति । यस्मिन् देशे अस्माभिः जन्म लब्धं, यस्यांके निरन्तरं क्रीड़ाः
जाताः, यस्य पावकैः जलैश्च पालिताः, पुष्टाः च, यस्य वायुः अस्मासु
जीवनं संचारयति, न तस्य ऋणेन कदाचिदपि वयं अनृणाः भवितुं
शक्नुमः । एतस्मादेव कथितं यत्- जननी जन्मभूमिश्च स्वार्गादपि गरीयसी।
देशभक्तः देशस्य कृते सर्वस्वं त्यजति, प्राणान्नपि न गणयति । देश-भक्तस्य
कृते धनस्य आवश्यकता न भवति । एतदर्थ तु हृदि स्नेहस्य आदरस्य
श्रद्धायायच भावाः एव पर्याप्ताः भवन्ति । देशभक्तिः मनुष्यमात्रस्य
कर्त्तव्यम् अस्ति । यस्य पुरुषस्य जीवनं चिन्तनं कार्यानुष्ठानं च यदि
स्वदेशस्य कृते भवति तदा तस्य जीवनं धन्यमस्ति । देशाक्तः स्वदेशं न
कदापि परतंत्रं द्रष्टुं शक्नोति प्राणेभ्यः अपि सः तं स्वतंत्रं कर्तु चेष्टते ।
स: देशः धन्यः या देशभक्ताः जायन्ते । तस्योत्कर्ष च कुर्वन्ति ।
I. एकपदेन उत्तरत । (एक पद में उत्तर दें।) 1×2=2
(i) कः अस्मासु जीवनं सदाचरति?
(ii) देशभक्तस्य कृते कस्य आवश्यकता न भवति ?
II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।) 2×2=4
(i) कस्य जीवनं धन्यमस्ति?
(ii) कः स्वर्गादपि गरीयसी?
III. प्रदत्तविकल्पेभ्यः समुचितं उत्तरम् चित्वा लिखत।
(दिए गए विकल्पों में से उचित उत्तर चुनकर लिखें।) ½×4=2
(i) 'कर्तुम्' पदे कः प्रत्ययः प्रयुक्तः?
(क) तव्यत्
(ख) तुमुन्
(ग) क्त्वा
(घ) अनीयर् ।
(ii) 'अस्माभिः' इति पदे का विभक्तिः?
(क) तृतीया
(ख) षष्ठी
(ग) प्रथमा
(घ) चतुर्थी।
(iii) 'यस्यां के' इति पदस्य संधि-विच्छेदं कुरुतः
(क) यस्याः + अंके
(ख) यत् + अंके
(ग) यस्या + अंके
(घ) यस्य + अंके।
(iv) 'माता' इत्यर्थे कः शब्दः अन्न प्रयुक्तः?
(क) श्वश्रूः
(ख) जाया
(ग) जननी
(घ) भगिनी।
IV. गद्यांशस्य कृते उपयुक्तं शीर्षकं लिखत ।
उत्तरः I. (i) वायुः
(ii) धनस्य।
II. (i) सः देशः धन्यः यत्र देशभक्ताः भवन्ति, तस्योत्कर्ष च कुर्वन्ति ।
(ii) जननी जन्मभूमिश्च स्वार्गादपि गरीयसी ।
III. (i) (ख) तुमुन्
(iii) (क) तृतीया
(iii) (ग) यस्या + अंके
(iv) (घ) जननी
IV. शीर्षक: देशभक्तिः ।
16. भारतस्य पवित्रतमा नदी भागीरथी अस्ति । अस्याः जलं शुद्धम् अस्ति ।
जनाः भागीरथ्यां श्रद्धया स्नानं कुर्वन्ति । गंगास्नानेन पापानां नाशः भवति
इति जनानां विश्वासः विद्यते । इयं नदी हिमालयात् प्रभवति । अस्याः तटे
अनेकानि नगराणि वर्तन्ते । प्रयागे गंगायाः यमुनायाः च संगमः भवति ।
गंगा यस्मिन् स्थाने सागरं प्रविशति तत् गंगासागर-तीर्थम् अपि प्रसिद्धम्
अस्ति । यत्र गंगायाः उद्गमः तत्रापि गोमुखं तीर्थं विद्यते । गंगोत्री स्थाने
राज्ञः भगीरथस्य मन्दिरम् अस्ति । राज्ञः भगीरथस्य तपोबलेन एवं गंगा
भूमिम् आगता, अतः एषा भागीरथी इति कथ्यते ।
I. एकपदेन उत्तरत । (एक पद में उत्तर दें।) 1×2=2
(i) भारतस्य पवित्रा नदी का अस्ति?
(ii) केन पापानां नाशः भवति?
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दें।) 2×2 =4
(i) गंगायाः यमुनायाः च संगमः कुत्र भवति?
(ii) गंगोत्री स्थाने कस्य मन्दिरम् अस्ति ?
III. यथानिर्देशम् उत्तरत । (निर्देशानुसार उत्तर दें।) ½×4=2
(i) 'अनेकानि' पदस्य विशेष्यम् किम्?
(क) पुरस्कारान्
(ख) यदैव
(ग) नगराणि
(घ) सम्मुखे।
(ii) 'प्रविशति' इति पदे कः उपसर्ग:?
(क) परा
(ख) प्रति
(ग) प्र
(घ) परि।
(iii) गंगायाः यमुनायाः च संगमः भवति । (रिक्तस्थानं पूरयत)
(क) हरिद्वारे
(ख) पाटलिपुत्रे
(ग) गोमुखम्
(घ) प्रयागे।
(iv) 'भागीरथी' इति पदस्य पर्यायः कः?
(क) गंगा
(ख) ताप्ती
(ग) गोमती
(घ) कावेरी।
IV. अस्य अनुच्छेदस्य कृते शीर्षकं लिखत । (अनुच्छेद के लिए समुचित
शीर्षक लिखिए)― 2
उत्तर : I. (i) भागीरथीं
(ii) गंगास्नानेन
II. (i) गंगायाः यमुनायाः च संगमः प्रयागे भवति ।
(ii). गंगोत्री नामके स्थाने राज्ञः भगीरथस्य मन्दिरम् अस्ति ।
III. (i)(ग) नगराणि
(iii) (ग) प्र
(iii) (घ) प्रयागे
(iv) (क) गंगा
IV. पवित्रतमा नदी भागीरथी।
17. विद्याध्ययनं परिसमाप्य गुरुदक्षिणां दातुम् उत्सुकः असौ कौत्सः एकदा
गुरुम् उपगम्य निजेच्छां प्रकटितवान् । तस्य वचः श्रुत्वा गुरुणा कथितम्
― "तव विशुद्धया श्रद्धया, उत्कृष्टया भावनया, परमया सेवया च
नितान्तमस्मि प्रीतः । तस्मात् नाहं कामये अन्यां काञ्चित् दक्षिणाम् ।"
आचार्यस्य वाक्यं श्रुत्वा कौत्सः पुनः अवदत् - "यदि न ग्रहीष्यन्ति
भवन्तः मम सकाशात् किमपि, तदा ममाध्ययनं व्यर्थम् एवेति में विश्वासः।"
एवं रीत्या यदा कौत्सः वारं वारम् आग्रहं कृतवान् कुपितः भूत्वा तदा
गुरुणा कथितम् - "त्वं मम सकाशात् चतुर्दश विधाः विद्याः अधीतवान्
असि, अतः चतुर्दश कोटिः स्वर्णमुद्राः मह्यं देहि" इति । गुरोः वचनं
श्रुत्वा कौत्सस्य मनसि महती चिन्ता जाता, एतावत्यः मुद्राः कुतः आनेतव्याः?
इति । न च दृश्यते कश्चन् अन्यो जनः एतावत् धनं दातुं समर्थः । तस्मात्
दातृणां मध्य श्रेष्ठस्य रघोः सकाशं चलितव्यम् इति विचार्य कौत्सः रघोः
समीपं गतवान्।
I. एकपदेन उत्तरत । (एक पद में उत्तर दें।) 1×2=2
(i) कि परिसमाप्य कौत्सः गुरुम् उपागच्छन्?
(ii) कौत्सस्य श्रद्धा कीदृशी आसीत्?
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दें।) 2×2=4
(i) कौत्सस्य वचनं श्रुत्वा गुरुणा किं कथितम्?
(ii) गुरोः वचनं श्रुत्वा कौत्सस्य मनसि का चिन्ता जाता?
III. यथानिर्देशम् उत्तरत । (निर्देशानुसार उत्तर दें।) ½×4 = 2
(i) 'काञ्चित्' इति पदस्य विशेष्यपदं किम्?
(क) सकाशात्
(ख) एतावत्
(ग) नितान्तम्
(घ) दक्षिणाम्
(ii) 'नाहम्' इति पदस्य संधि-विच्छेदं कुरुत ।
(क) न + अहम्
(ख) ने + अहम्
(ग) ना + अहम्
(घ) नी+ अहम्।
(iii) 'कथितम्' इत्यत्र कः प्रत्ययः प्रयुक्तः?
(क) क्तवतु
(ख) शतृ
(ग) क्त
(घ) क्त्वा।
(iv) 'मनसि' इति पदे का विभक्तिः अस्ति?
(क) द्वितीया
(ख) चतुर्थी
(ग) सम्बोधन
(घ) सप्तमी।
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (अनुच्छेद के लिए
समुचित शीर्षक लिखिए)― 2
उत्तर : I. (i) विद्याध्ययनम्
(ii) विशुद्धा
II. (i) कौत्सस्य वचनं श्रुत्वा गुरुणा कथितम् -"तव विशुद्धया श्रद्धया,
उत्कृष्टया भावनया, परमया सेवया च नितान्तमस्मि प्रीतः, तस्मात्
नाहं कामये अन्यां काशित दक्षिणाम्।"
(ii) गुरोः वचनं श्रुत्वा कौत्सस्य मनसि चिन्ता जाता यत् एतावत्यः मुद्राः
कुतः आनेतव्याः?
III. (ii) (घ) दक्षिणाम्
(iii) (क)न + अहम्
(iii) (ग) क्त
(iv) (घ) सप्तमी
IV. गुरुदक्षिणा।
18. दीपावली अस्माकं प्राचीनतम पर्व । अस्मिन् दिने सर्वाधिकम् आकर्षक
मनोरञ्जनं भवति स्फोटकानाम अस्फोटनम् । विचित्राणि वर्णयुक्तानि स्पोटकानि
आकाशे च विविधरूपाणि दर्शयन्ति । जनाः तानि दृष्टवा तुष्यन्ति । परन्तु
अति सर्वत्र वर्जयेत्। रात्रौ अस्फोटकानां शब्बः कर्ण बधिरीकरोति वायुमण्डल
च दूषयति । पूर्व तु जनसंख्या न्यूना आसीत् । वृक्षाः वायुं शुद्धं कुर्वन्ति
स्म । इदानीम् जनसंख्या प्रवृद्धा वृक्षाणां संख्या च क्षीणास्ति । विस्फोटकेभ्यः
निर्गतः धूमः रूग्णान् पीडयति, नवजातशिशुभ्यः अपि हानिकरः सिद्धयति ।
दीपावलीसमये शरदि आकाशः निर्मलः भवति । अतः वयम् पवित्रतया
सद्भावनया उत्साहेन च दीपावली मन्येम तथा वसुन्धरां भूषितां कुर्याम न
तु दूषिताम् । येन सर्वेषां जीवन सुखमयं भवेत् । यतः 'सर्वे भवन्तु
सखिनः' इत्येव अस्माकम आदर्शः।
I. एकपदेन उत्तरत । (एक पद में उत्तर दें।) 1×2=2
(i) के वायुं शुद्धं कुर्वन्ति ?
(ii) सर्वेषां जीवनं कीदृशं भवेत् ?
II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।) 2×2 =4
(i) अस्माकं कः आदर्श?
(ii) स्फोटकानां धूमः कान् पीडयति ?
III. यथानिर्देशम् उत्तरत । (निर्देशानुसार उत्तर दें।) ½×4 = 2
(i) 'प्रवृद्धा' इतस्य पदस्य विलोमपदं लिखत ।
(क) निर्गत:
(ख) न्यूना
(ग) क्षीणा
(घ) दूषिताम् ।
(ii) 'परन्तु अति सर्वत्र वर्जयेत् ।' अत्र क्रियापदं किम् ?
(क) वर्जयेत्
(ख) परन्तु
(ग) अति
(घ) सर्वत्र।
(iii) 'रात्रौ' इति पदे का विभक्तिः अस्ति?
(क) सम्बोधन
(ख) तृतीया
(ग) सप्तमी
(घ) पंचमी।
(iv) 'पर्व' इत्यस्य किं विशेषणपदम् अत्र प्रयुक्तम् ?
(क) प्राचीनतम्
(ख) सर्वाधिकम्
(ग) प्राचीनतमम्
(घ) अधुनिकम्
IV. अस्य अनुच्छेदस्य कृते उचितं शीर्षकं लिखत । (अनुच्छेद के लिए
समुचित शीर्षक लिखिए) 2
उत्तर: I. (i) वृक्षाः
(ii) सुखमयम्
II. (i) 'मा कश्चिद् दुःखभाग भवेत् । इति अस्माकम् आदर्शः।'
(ii) स्फोटकानां धूमः रूग्णान् पीडयति ।
III. (ii)(ग) क्षीणा
(iii) (क) वर्जयेत्
(iii) (ग) सप्तमी
(iv) (ग) प्राचीनतमम्
IV. अति सर्वत्र वर्जयेत्/दीपावली।
19. द्रुमाः वसुन्धरायाः अलङ्काराः सन्ति ये आजीवनम् दूषितवायोः विषं
पिबन्ति; प्राणिभ्यः च अमृततुल्यं शुद्धं वायु उत्सृजन्ति । एते उपकारिणः
स्वयम् आतपे तिष्ठन्ति, ग्रीष्मतापेन तप्तेभ्यः श्रान्तेभ्यः च जनेभ्यः
शीतलां छायां यच्छन्ति । भारतीयसंस्कृतौ वटवृक्षस्य अश्वत्थतरोः
तुसलीपादपादीनां बहुमानः क्रियते । वटवृक्षस्य अधः उपविश्य गुरवः
शिष्यान् उपदिशन्ति स्म । विविधैः फलैः च अलङकृताः महीरूहाणाम्
विनताः शाखाः मानवेभ्यः विनम्रतायाः आचरणस्य सन्देशं यच्छन्ति ।
वृक्षाणाम् सङ्गे मनुष्याः अतीव शान्तिं विन्दन्ति । मनुष्याणाम् स्नेहस्पर्शन
च पादपाः सम्यक्पेण विकसन्ति । अतः अस्माभिः समयं प्राप्य वृक्षैः
सह प्रकृतिमातुः अङ्के अवश्यमेव स्थातव्यम् । असंख्यजीवजन्तूनाम् ।
आश्रयस्थलानि अनेकेषाम् खगानां नीडानि एते पुष्पिताः फलिनः च वृक्षाः
स्थान-स्थाने रोपणीयाः रक्षर्णीयाः वर्धनीयाः च ॥
I. एकपदेन उत्तरत । (एक पद में उत्तर दें।) 1×2=2
(i) वसुन्धरायाः अलंकाराः के सन्ति ?
(ii) महीरूहाः केभ्यः आचरणस्य संदेशं यच्छन्ति ?
II. पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें।) 2×2=4
(i) भारतीय संस्कृतौ कयोः वृक्षयोः बहुमानः क्रियते ?
(ii) वृक्षाणाम् सङ्गे मनुष्याः का विन्दन्ति ?
III. प्रदत्त विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत । (दिए गए
विकल्पों में से उचित चुनकर उत्तर लिखें।) ½×4 = 2
(i) 'विकसन्ति' इति क्रियापदस्य कर्तृपदं किम् अस्ति ?
(क) विषम्
(ख) वायुः
(ग) मानवा:
(घ) पादपाः ।
(ii) 'पुष्पैः' इत्यर्थे कः समानार्थकः शब्दः प्रयुक्तः ?
(क) फलैः
(ख) प्रसूनैः
(ग) वृक्षैः
(घ) खगाः ।
(iii) 'अतीव' इति पदस्य संधि-विच्छेदं कृरुतः ।
(क) अति + इव
(ख) अति + ईव
(ग) अती + इव
(घ) अती + ईव।
(iv) अत्र कि विशेषण पदं प्रयुक्तम् ?
(क) वृक्षाः
(ख) महीरूहाः
(ग) शीतला
(घ) पादपाः।
IV. गद्यांशस्य कृते समुचितम् उत्तरं चित्वा लिखत―
(गद्यांश के लिए उपर्युक्त शीर्षक लिखें।)― 2
उत्तरःI. (i) द्रुमाः
(ii) मानवेभ्यः
II. (i) भारतीय संस्कृतौ वटवृक्षस्य, अश्वत्थतरोः, तुलसीपादपादीनां बहुमानः
क्रियते ।
(ii) वृक्षाणाम् सङ्गे मनुष्याः अतीव शान्तिं विन्दन्ति ।
III. (ii)(घ) पादपाः
(iii) (ख) प्रसूनैः
(iii) (क) अति + इव
(iv) (ग) शीतला
IV. शीर्षक-वृक्षाणां महत्त्वम् ।
■■