Jharkhand Board Class 10 Sanskrit Notes | गद्यांश
JAC Board Solution For Class 10TH Sanskrit Chapter 1
पठित अवबोधनम्
(अ) गद्यांश
1. एकदा स कावेरीतीरपत्तने विगलितसमृद्धिं विरलभूषणां कुमारीमपश्यत् ।
तस्या अतुलितरूपसम्पदाभिभूतः शक्तिकुमारोऽचिन्तयत्-सेयमाकृति र्न
शीलविरोधिनी । आसज्जति में हृदयमस्यामेव । तदेनां परीक्ष्योवहामि ।
स्नेहपूर्णदृष्टिः स आह-'अस्ति ते कौशलं शालिप्रस्थेनानेन सम्पन्नमाहारम्
अस्मान् भोजयितुम्'?
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) विगलितसमृद्धिः का आसीत् ?
(ii) शक्तिकुमारः कुमारी परीक्ष्य किं कर्तुम् इच्दति स्म ?
II. एक वाक्येन उत्तरत । (एक वाक्य में उत्तर दें।)
(i) "तदेनां परीक्ष्योद्वहामि ।" इति वाक्यं केन चिन्तितम् ?
III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत ।(दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'सः आह' अत्र 'सः' इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) देवकुमाराय
(ख) शक्तिकुमाराय
(ग) शिवकुमाराय
(घ) मनोरंजनाय ।
(ii) 'नगरम्' इति पदस्य पर्यायं चित्वा लिखत ।
(क) ग्रामम्
(ख) प्रान्तम
(ग) राष्ट्रम्
(घ) पत्तनम् ।
(iii) 'दृष्ट्वान्' इति क्रियार्थे का प्रयुक्ता?
(क) ददर्श
(ख) उद्वहामि
(ग) अपश्यत्
(घ) सम्पन्नम् ।
(iv) 'सघन' इति पदस्य विलोमपदं लिखत ।
(क) विरल
(ख) उत्तम
(ग) मध्यम
(घ) अधम ।
उत्तरः I. (i) कुमारी (ii) उद्वोढुम् (विवाहं कर्तुम्)
II. "तदेनां परीक्ष्योद्वहामि।" इति वाक्य शक्तिकुमारेण चिन्तितम् ।
III. (ii)(ख) शक्तिकुमाराय (iii) (घ) पत्तनम्
(iii) (ग) अपश्यत् (iv) (ग) मध्यम
2. ततस्तया वृद्धदासी साभिप्रायमालोकिता । तस्य हस्तात् प्रस्थामात्र धान्यमादाय
स्वगृहस्य चत्वरे तं प्रक्षलितपादम् उपावेशयत् । ततस्तान् सुरभीन् शालीनातपे
किञ्जिद् विशोष्य मुहुर्मुहुः परिवर्त्य समायां भूमौ अघट्टयत् ।
तुषेभ्यस्तण्डुलान्पृथक् कृत्वा धात्रीमुक्तवती-'मातः! इमान् भूषणमार्जनसमर्थान्
तुषान स्वर्णकारेभ्यो देहि । तेभ्यो लब्धाभिः काकिणीभिः काष्ठानि स्थालीं
शारवद्वयं चहर' ततः सा तान् तण्डुलान् उलूखले मुसलेनावहत्य शूर्पण
शोधयित्वाऽसकृद् जलेन प्रक्षाल्य क्वथितजले प्राक्षिपत् । सिद्धेषु च
तण्डुलेषु मण्डनिःसारणाय स्थालीमधोमुखीं कृतवती । इन्धनानि पुनरम्भसा
शमयित्वा कृष्णाङ्गरानपि तदर्थिभ्यः प्रेषितवती । विक्रीतैरङ्गारैर्यत् मूल्यं
लब्धं तेन शाकं घृतं दधि तैलं चिञ्चाफलं च क्रीतम् । ततो व्यञ्जनादिकं च
तया सम्पादितम्।
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) साभिप्रायः का आलोकिता?
(ii) कान् आतपे विशोष्य भूमौ अघट्टयत् ?
II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) स्वर्णकारेभ्यः काः प्रदत्ताः?
III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत । (दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'चाहर' इति पदस्य संधि-विच्छेदं कुरुत ।
(क) च + आहर
(ख) चा + हर
(ग) ची + आहर
(घ) चे + आहर।
(ii) 'काकिणीभिः' इति पदे का विभक्तिः ?
(क) द्वितीया
(ख) तृतीया
(ग) चतुर्थी
(घ) पंचमी।
(iii) 'प्राक्षिपत्' इति क्रियापदस्य कर्तृपदं किम् ?
(क) स:
(ख) त्वम्
(ग) सा
(घ) अहम्।
(iv) 'पृथिव्याम्' इति पदस्य समानार्थकशब्द: चिनुत ।
(क) गगने
(ख) भूमौ
(ग) उलूखले
(घ) शूर्पण।
उत्तरःI. (i) वृद्धदासी (ii) शालीन् ।
II. (i) स्वर्णकारेभ्यः भूषणमार्जनसमर्थाः तुषाः प्रदत्ताः ।
III. (ii)(क) च + आहर (iii) (ख) तृतीया
(iii) (ग) सा (iv) (ख) भूमौ
3. भूकम्पस्य केन्द्रभूतं भुजनगरं मृत्तिकाक्रीडनकमिव खण्डखण्डम् जातम् ।
बहुभूमिकानि भवनानि क्षणेनैव धराशायिनी जातानि । उत्खाता
विद्युद्वीपस्तम्भाः । विशीर्णाः गृहसोपानमार्गाः । फालद्वये विभक्ता भूमिः ।
भूमिग दुपरि निस्सरन्तीभिः दुर्वार जलधाराभिः महाप्लावनदृश्यम्
उपस्थितम् । सहस्त्रामिताः प्राणिनस्तु क्षणेनैव मृताः । ध्वस्तभवनेषु सम्पीडिता
सहस्त्रशोऽन्ये सहायतार्थ करूणकरूणं क्रन्दन्ति स्म । हा दैव! क्षुत्क्षामकण्ठाः
मृतप्रायाः केचन् शिशवस्तु ईश्वरकृपया एवं द्वित्रीणि दिनानि जीवनं
धारितवन्तः।
I. एक पदेन उत्तरत । (एक पद में उत्तर दीजिए।)
(i) कीदृशानि भवनानि धराशायिनी जातानि?
(ii) के क्षणेनैव मृताः?
II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) महाप्लावनदृश्यम् कथम् उपस्थितम् ?
III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत ।(दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'मृताः' इति क्रियापदस्य कर्तृपदं किम् ?
(क) सहस्त्रः
(ख) प्राणिनः
(ग) शिशवः
(घ) भुजनगरम् ।
(ii) 'शिशवस्तु' इति संधि-विच्छेदं किम् ?
(क) शिशुः + स्तु
(ख) शिशुः + अस्तु
(ग) शिशवः + तु
(घ) शिशवः + स्तु।
(iii) धारितवन्तः इति अस्मिन् पदे कः प्रत्ययः ?
(क) तुमुन्
(ख) तव्यत्
(ग) अनीयर्
(घ) क्तवतु ।
(iv) 'क्रन्दन्ति स्म' इति क्रियापदे कः लकारः?
(क) लङ्
(ख) लट्
(ग) लोट
(घ) लृट् ।
उत्तरः I. (i) बहुभूमिकानि (ii) सहस्त्रामिताः प्राणिनस्तु
II. (i) महाप्लावनदृश्यम् भुजगरं उपस्थितम् ।
III. (ii)(ख) प्राणिनः (iii) (ग) शिशवः + तु
(ii) (घ) क्तवतु (iv) (क) लङ्
4. कश्चिद् राजा स्वमनसि निरन्तरं प्रवर्तमानायाजिज्ञासायाः समाधानाय
कस्मिंश्चिदाश्रमे निवसतो मुनेः पार्श्वमुपागच्छत् । तदानीं मुनिः स्वकार्यसंलग्न
एवं राजानं यथेष्टमभ्यनन्दत् । राजा तं मुर्नि प्रश्नत्रयमपृच्छत्-कः समयः
श्रेष्ठः ? कः पुरुषः श्रेष्ठः ?
किं कर्म च श्रेष्ठम् ? इति । मुनिस्तु राजानं प्रति न ध्यात्वा
स्वकार्यमेवाकरोत् ।
तत्राश्रमे राज्ञो निवासादिव्यवस्थामपि निधार्य मुर्न किमप्यवोचत् प्रत्युत
स्वकीयानि कार्याणि यथापूर्वमाचरत् । राजा पुनः पुनः तानेव प्रश्नानुपस्थाप्य
मुनेरुत्तरं प्रतीक्षितवान् ।
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) राजा कस्य पार्श्वम् अगच्छत् ?
(ii) राजा कति प्रश्नाः पृष्टाः?
II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) राजा कथं आश्रमं गतवान् ?
III. यथा निर्देशम् उत्तरमः (निर्देशानुसार उत्तर दें।)―
(i) 'यथापूर्वम्' इति पदे कः समासः ?
(क) अव्ययीभावः
(ख) बहुव्रीहिः
(ग) कर्मधारयः
(घ) तत्पुरुषः।
(ii) 'तस्मिन् काले' इत्यर्थे कि अव्ययपदं प्रयुक्तम् ?
(क) सम्प्रति
(ख) अधुना
(ग) तदानीम्
(घ) अकस्मात् ।
(iii) 'सेवांम अकरोत्' इत्यत्र कर्तृपदं किम् अस्ति ?
(क) मुनिः
(ख) पुरुषः
(ग) राजा
(घ) समयः।
(iv) 'मनसि' इति पदे का विभक्तिः?
(क) सम्बोधन
(ख) द्वितीया
(ग) पंचमी
(घ) सप्तमी।
उत्तर:I. (i) मुनेः (ii) त्रयः
II. (i) राजा स्वमनसि निरन्तरं प्रवर्तमानाया जिज्ञासायैः आश्रवमं गतवान् ।
III. (ii)(क) अव्ययीभावः (iii) (ग) तदानीम्
(iii) (क) मुनिः (iv) (घ) सप्तमी
5. अथ अपरेधु: राज्ञो राजधानी प्रति प्रस्थानोत्सुकस्य पुरतः कश्चित् र्शवाहतः
श्रमक्लान्तः पुरुषः आश्रममागतः । तस्यं कष्टं विलोक्य दयाो मुनियर्थासाध्यं
तस्योपचारे प्रवृत्तः । राजापि तादृशस्य आतुरस्य दशाया विकल इव
मुनेस्तस्मिन् कार्ये तदादेशेन सहायतां चकार । कतिपयैरेव दिवसैरागन्तुको
मुनेः राज्ञश्चोपचारेण स्वस्थो जातः ।
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) आश्रमं कः गतः?
(ii) राजधानी प्रति कः गन्तुम् इच्छति स्म ?
II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) राजा कस्य कार्ये सहायताम् अकरोत् ?
III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत ।(दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'शस्त्राहतः' इति पदस्य संधि-विच्छेदं कुरुत ।
(क) शस्त्र + हतः
(ख) शस्त्र + आहतः
(ग) शस्त्रा + हत
(घ) शस्त्रेण + आहतः।
(ii) 'दशया' इति पदे का विभक्तिः अस्ति ।
(क) सप्तमी
(ख) द्वितीया
(ग) पंचमी
(घ) तृतीया ।
(iii) 'सन्मुखे' इत्यर्थे कः अव्ययः?
(क) अन्तरा
(ख) पुरतः
(ग) विना
(घ) पूर्वतः।
(iv) 'श्रमक्लान्तः पुरुषः' इत्यत्र 'पुरुषः' किम् ?
(क) विशेष्यम्
(ख) संयोजकः
(ग) सर्वनाम:
(घ) प्रविशेषणम् ।
उत्तरःI. (i) श्रमक्लान्तः पुरुषः (ii) राज्ञः (iii) दयार्द्रः।
II. (i) राजा मुनेतस्मिन् सेवा कार्ये सहायतां अकरोत् ।
III. (ii)(ख) शस्त्र + आहतः (ii) (घ) तृतीया
(iii) (ख) पुरतः (iv) (क) विशेष्यम्
6. स च राजानमुवाच-मया केनापि कारणेन क्रोधाविष्टेन राजैव हन्तव्यः
आसीत् किन्तु मदविचारस्य प्रकाशनात् राजपुरुषाः मां भृशमताडयन्
वन्दीकृतवन्तश्च । यथाकथमपि अत्र निरापदमाश्रममागतोऽस्मि पलायमानो
बन्धनात् । अधुना भवतो व्यवहारेण कोपो में गलितः । क्षन्तव्योऽयं वराको
जनः आज्ञापयतु महाराजः ।
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) आश्रमं प्राप्तः जनः कं हन्तुमैच्छत्?
(ii) जनः राजपुरुषैः कथं ताडितः ?
II. एक वाक्येन उत्तरत । (एक वाक्य में उत्तर दें।)
(i) कस्य कोपः गलितः जातः?
III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत (दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)-
(i) 'आज्ञापयतु' इति पदे कः लकारः प्रयुक्तः ?
(क) लोट
(ख) लट्
(ग) लृट्
(घ) लङ् ।
(ii) 'बन्धनात्' इति पदे का विभक्तिः प्रयुक्ता ?
(क) संबोधन
(ख) तृतीया
(ग) पंचमी
(घ) षष्ठी।
(iii) 'राजैव' इति पदस्य संधि-विच्छेदं कुरुत ।
(क) राजन् + एवं
(ख) राज + एव
(ग) राजा + इव
(घ) राजा + एव ।
(iv) 'सम्प्रति' इत्यर्थे कः शब्दः प्रयुक्तः ?
(क) इदानीम्
(ख) अधुना
(ग) तदानीम्
(घ) श्वः।
उत्तरः I. (i) राजानम् (ii) विचारप्रकाशनात्
II. (i) बन्धनात् पलायितस्य जनस्य कोपो गलितो जातः ।
III. (ii)(क) लोट (iii) (ग) पंचमी
(iii) (घ) राजा + एव (iv) (ख) अधुना
7. कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्जिद वित्तमुपार्जितवान् । तेन
स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः । तत्तनयः
तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा स पिता
तनूजस्य रुग्णतामाताकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः ।
परमर्थकार्येन पीड़ितः स बसयानं विहाय पदातिरेव प्राचलत् ।
पदातिक्रमेण संचलन सायं समयेऽप्यसौ गन्तव्याद् दूरे
आसीत् । निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा। एवं
विचार्य स पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं किञ्चद् गृहस्थमुपागतः ।
करुणापरो गृही तस्मै आश्रयं प्रायच्छत् ।
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) कः परिश्रम्य वित्तम् उपार्जितवान् ?
(ii) तनयः कुत्र निवसन् अध्ययने संलग्नः अभूत् ?
II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) पिता कथं व्याकुलो जातः?
III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत (दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें ।)―
(i) एकस्मिन् काले इत्यर्थे अत्र कि अव्ययपदं प्रयुक्तम् ।
(क) सदा
(ख) सर्वत्र
(ग) एकदा
(घ) कदाचित् ।
(ii) 'प्रातः' इत्यस्य किं विलोमपदं प्रयुक्तम् ।
(क) पूर्वाह्ने
(ख) सायम्
(ग) अपराह्ने
(घ) निशायाम् ।
(iii) 'प्राचलत्' क्रियापदस्य कर्तृपदं लिखत ।
(क) निर्धनः जनः
(ख) अधम पुरुषः
(ग) राजा
(घ) समृद्धः जनः।
(iv) 'पदयात्रा' इति पदस्य समास-विग्रहं कुरुत ।
(क) पदेन यात्रा
(ख) पादौ यात्रा
(ग) पदात् यात्रा
(घ) पादाभ्यां यात्रा।
उत्तरःI. (i) निर्धनजनः (ii) छात्रावासे
II. (i) पिता तनुजस्य रुग्णतामाकर्ण्य व्याकुलो जातः ।
III. (i)(क) एकदा (iii) (ख) सायम्
(ii) (क) निर्धनः जनः (iv) (घ) पादाभ्यां यात्रा
8. विचित्रा दैवगतिः । तस्यामेव रात्रौ तस्मिन् गृहे कश्च चौरः गृहाश्यन्तरं
प्रविष्टः । तत्र निहितामेकां मञ्जुषाम् आदाय पलायितः। चौरस्य पादध्वनिना
प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत अगृहणाच्च, परं विचित्रमघटत ।
चौरः एव उच्चैः क्रोशितुमारभवत् “चौरो ऽयम्" इति । तस्य तारस्वरेण
प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च
चौर मत्वाऽभर्त्सयन । यद्यपि ग्रामस्य आरक्षी एवं चौरः आसीत् । तत्क्षणमेव
रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत् ।
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) दैवगतिः कीदृशी भवति?
(ii) चौरः कदा गृहाभ्यन्तरं प्रविष्टः?
II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) 'चौरोऽयं चौरोऽयं' इति कः उच्चैः क्रोशितुमारभत्?
III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत ।(दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'निष्क्रम्य' इति पदे कः प्रत्ययः प्रयुक्तः ?
(क) ल्यप्
(ख) क्त्वा
(ग) शानच्
(घ) क्तिन् ।
(ii) 'चौरः गृहाभ्यान्तरं प्रविष्टः । अत्र कर्तृपदं किम् ?
(क) गृहे
(ख) ग्रामवासिनः
(ग) चौरः
(घ) आरक्षी।
(iii) 'कारागृहे' इति पदे का विभक्तिः प्रयुक्ता?
(क) द्वितीया
(ख) सप्तमी
(ग) चतुर्थी
(घ) प्रथमा ।
(iv) 'अतिथि:' शब्दस्य समास-विग्रहं कुरुत ।
(क) अन + अतिथि:
(ख) अन तिथि:
(ग) 'न तिथि:
(घ) न तिथया:।
उत्तर:I. (i) विचित्रा (ii) रात्रौ
II. (i) 'चौरोऽयं चौरोऽयं' इति चौरः एव उच्चैः क्रोशितुमारभत् ।
III. (ii)(क) ल्यप् (iii) (ग) चौरः
(iii) (ख) सप्तमी (iv) (ग) न तिथि:
9. अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान् । न्यायाधीशो
बंकिमचन्द्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान् । सर्व वृत्तमवगत्य स
तं निर्दोषम् अमन्यत आरक्षिणं च दोपभाजनम् । किन्तु प्रमाणाभावात् स
निर्णेतुं नाशक्नोत् । ततोऽनौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान् ।
अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ । तदैव कश्चिद्
तत्रत्यः कर्मचारी समागत्य, न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिज्जनः
केनापि हतः । तस्य मृतशरीरं राजमार्ग निकषा वर्तते । आदिश्यतां कि
करणीयमिति । न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये
आनेतुमादिष्टवान् ।
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) न्यायाधीशस्य नाम किम् आसीत् ?
(ii) राजमार्ग निकषा किम् आसीत् ?
II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) न्यायाधीश निर्णयं कर्तुं कर्थ नाशक्नोत् ।
III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत ।(दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'करणीयम्' पदे कः प्रत्ययः प्रयुक्तः ?
(क) तव्यत्
(ख) अनीयर्
(ग) शतृ
(घ) शानच् ।
(ii) 'तदैव' पदस्य संधि-विच्छेदं कुरुत ।
(क) तदा + एवम्
(ख) तदा + इव
(ग) तदा + एव
(घ) तत् + एव।
(iii) 'अग्रिमे दिने' अत्त अग्रिमे किम् अस्ति ?
(क) विशेषणम्
(ख) क्रिया-विशेषणम्
(ग) विशेष्यम्
(घ) प्रविशेषणम्।
(iv) 'अशक्नोत्' इति क्रियापदे क: लकार:?
(क) लृट्
(ख) लोट
(ग) लट्
(घ) लङ् ।
उत्तर:I. (i) बंकिमचन्द्रः (ii) मृतशरीरं
II. (i) प्रमाणाभावात् न्यायाधीश: निर्णयंकतु नाशक्नोत् ।
III. (ii)(ख) अनीयर (iii) (ग) तदा + एव
(iii) (क) विशेषणम् (iv) (घ) लङ्
10. आदेशं प्राप्य उभौ प्राचलत् । तत्रोपेत्य काष्ठपटले पटाच्छादितं देह
स्कन्धेन वहन्तौ न्यायाधिकारिणं प्रति प्रस्थितौ । आरक्षी पुष्टदेहः आसीत्,
अभियुक्तश्च अतीव कृशकायः । भारवतः शवस्य स्कन्धेन वहनं तत्कृते
दुष्करम् आसीत्। स भारवेदनया क्रन्दति स्म । तस्य क्रन्दनं निशम्य
मुदितः आरक्षी तमुवाच–"रे दुष्ट ! तस्मिन् दिने त्वया अहं चोरितया
मञ्जूषया गृहणात् वारितः । इदानीं निजकृत्यस्य फलं भुङक्ष्व ।"
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) आरक्षी कीदृशः आसीत् ?
(ii) कः अतीव कृशकायः आसीत् ?
II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) उभौ पटाच्छादितं देहं स्कन्धेन वहन्तौ कुत्र प्रस्थितौ ?
III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत । (दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'अंतीव' पदस्य संधि-विच्छेदं कुरुत ।
(क) अति + इव
(ख) अती + इव
(ग) अति + एव
(घ) अति + ईव।
(ii) 'कठिनम्' इत्यर्थे समानार्थक शब्दः कः अस्ति ?
(क) सरलम्
(ख) दुष्करम्
(ग) अति भारम्
(घ) पुष्टदेहः।
(iii) त्वया' इति पदे का विभक्तिः प्रयुक्तः?
(क) प्रथमा
(ख) षष्ठी
(ग) सम्बोधन
(घ) तृतीया।
(iv) 'निशम्य' इति पदे कः प्रत्ययः प्रयुक्तः ?
(क) क्तवतु
(ख) क्तिन्
(ग) ल्यप्
(घ) क्त ।
उत्तरःI. (i) पुष्टदेहः (ii) अभियुक्तः
II. (i) उभौ पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायधिकारिणं प्रति प्रस्थितौ ।
III. (ii)(क) अति + इव (ii) (ख) दुष्करम्
(iii) (घ) तृतीया (iv) (ग) ल्यप्
11. न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टो। आरक्षिणी निजपक्षं
प्रस्तुवति आश्चर्यमघटत् स शवः प्रवारकमपसार्य न्यायाधीशमभिवाद्य
निवेदितवान् –मान्यवर ! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि
'त्वयाऽहं चोरितायाः मञ्जूषाया ग्रहणाद् वारितः अतः निजकृतस्यसे फलं
भुङक्ष्व। अस्मिन् चौर्याभियोग त्वं वर्षत्रयस्य कारादंड लप्स्य इति ।
न्यायाधीशः आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मानं मुक्तवान ।'
I. एक पदेन उत्तरत । (एक पद में उत्तर दीजिए।)
(i) आरक्षिणि निजपक्षं प्रस्तुवति किम् घटत् ?
(ii) शवः किमपसार्य न्यायाधीशं निवेदितवान् ?
II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दीजिए।)
(i) न्यायाधीशेन कीदृशः निर्णयः कृतः?
III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत (दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'वक्तुम्' इति पदे को धातु-प्रत्ययौ स्तः ?
(क) वद् + तुमुन्
(ख) उच् + तुमुन्
(ग) वच् +तुमुन्
(घ) वक् + तुमुन्।
(ii) 'पुनस्तौ' इति पदस्य संधि-विच्छेदं कुरुत ।
(क) पुनः + तौ
(ख) पुनः + स्तौ
(ग) पुनु + स्तौ
(घ) पुन + तौ।
(iii) 'लप्स्यसे' इति क्रियापदे कः लकारः?
(क) लङ्
(ख) लृट्
(ग) लट्
(घ) लोट् ।
(iv) 'मृतः' इत्यर्थे कः शब्दः अत्र प्रयुक्तः?
(क) आरक्षी
(ख) शवः
(ग) अतिथि:
(घ) न्यायाधिकारी।
उत्तरः I. (i) आश्चर्यम् (ii) प्रावारकम्
II. (i) न्यायाधीशः आरक्षिणे कारादण्डमादिश्य निर्धनं जनं ससम्मानं
मुक्तवान् ।'
III. (ii)(ग) वच् + तुमुन् (iii) (क) पुनः + तौ
(iii) (ख) लुट् (iv) (ख) शवः
12. अथ सा कन्या धात्रीमुखेनातिथिं स्नानाय प्रेरितवती । स्नानशुद्धायातिथये
तैलमामलकं चायच्छत् । फलकमारुह्य, प्राङ्गणकदलीदलं लवित्वा तन्नासनं
भोजनाधारं च कृतवती। पेयोपहारपूर्वं भोजनं घृतसहितोदनं व्यञ्जनं च
तस्मै दत्तवती । मध्ये मध्ये च विविधभोज्यादि प्रकारान् वर्णयित्वा रुचिमपि
वर्धितवती । अन्ततः शिशिरवारिणा पेयमाचमनं च प्रदत्तवती । भुक्ते तु
तस्मिन् तयास्य शयनव्यवस्थापि कृता । एवं कन्यागुणसम्पदा समाकृष्टः
शक्तिकुमारस्तां विधिवदुपयम्य नीतवान् । अतएवोक्तम्-किं गृहिणः
प्रियहिताय? दारगुणाः।'
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) अतिथि: स्नानाय केन प्रेरितः?
(ii) कन्या भोजनाधारं केन रचितवती?
II. पूर्ण वाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) भुक्ते अतिथौ तस्मै का व्यवस्था जाता ?
III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत (दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) अयच्छत् इति क्रियापदे क: लकार:?
(क) विधिलिंग
(ख) लङ्
(ग) लोट
(घ) लृट् ।
(ii) गद्यांशे 'तस्मै' इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) शक्तिकुमाराय
(ख) अंजनिकुमाराय
(ग) चन्द्रशेखराय
(घ) नन्दकुमाराय।
(iii) 'शिशिरवारिणा' इति पदे का विभक्तिः प्रयुक्ता?
(क) प्रथमा
(ख) पञ्चमी
(ग) तृतीया
(घ) सप्तमी।
(iv) 'लवित्वा' इति पदस्य शुद्धं पर्यायं चित्वा लिखत ।
(क) चित्वा
(ख) आनीय
(ग) छिद्वा
(घ) छेदित्वा।
उत्तरः I. (i) धात्रीमुखेन/धात्रा (ii) कदलिदलेन
II. (i) भुक्ते अतिथौ तस्मै शयनव्यवस्था जाता।
III. (ii)(ख) लङ् (iii) (क) शक्तिकुमाराय
(iii) (ग) तृतीया (iv) (घ) छेदित्वा
13. अस्ति द्रविडेषु काञ्ची नाम नगरी । तस्यामनेककोटिसारः श्रेष्ठिपुत्रः
शक्तिकुमारो नामासीत् । सोऽष्टादशवर्षदेशीयः चिन्तामापन्नः 'नास्त्यदाराणाम्
अननुगुणदाराणां वा सुखम् । तत्कथं नु गुणवद् विन्देयं कलत्रम् ।' स
वस्त्रान्तपिनद्धशालिप्रस्थो दारग्रहणाय भुवमभ्रमत् । या कामपि लक्षणवर्ती
कन्यां विलोक्य स पृच्छति-'भद्रे ! शक्नोषि किमनेन शालिप्रस्थेन गुणवदन्नम्
अस्मान् भोजयितुम्?' एवं कृते स हसितावधूतः गृहाद् गृहं प्रविश्याभ्रमत् ।
एकदा स कावेरीतीरपत्तने विगलितसमृद्धिं विरलभूषणां
कुमारीमपश्यत् । तस्या अतुलितरूपसम्पदाभिभूतः
शक्तिकुमारोऽचिन्तयत्-सेयमाकृति र्न शीलविरोधिनी। आसज्जति में
हृदयमस्यामेव । तदेना परीक्ष्योद्वहामि । स्नेहपूर्णदृष्टिः स आह-'अस्ति
ते कौशलं शालिप्रस्थेनानेन सम्पन्नमाहारम् अस्मान् भोजयितुम्'?
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) नगर्याः किं नाम आसीत् ?
(ii) कः गृहाद् गृहं प्रविश्य भ्रमति स्म?
II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) केषां सुखं नास्ति?
III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत ।(दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'गुणवद्' इति पदं कस्य विशेषणम् ?
(क) हसितावधूतः
(ख) भोजयितुम्
(ग) कलत्रम्
(घ) शीलविरोधिनी।
(ii) 'विलोक्य' इति पदे कः प्रत्ययः प्रयुक्तम?
(क) क्तिन्
(ख) ल्यप्
(ग) क्त्वा
(घ) क्तवतु।
(iii) 'अभ्रमत्' इति पदे कः लकारः अस्ति?
(क) लङ
(ख) लट्
(ग) लोट
(घ) लृट् ।
(iv) 'अस्मान्' इति पदे कः मूलशब्दः?
(क) युष्मद्
(ख) किम्
(ग) सर्व
(घ) अस्मद् ।
उत्तर:1. (i) काञ्ची (ii) शक्तिकुमार:/श्रेष्ठिपुत्रः
II. (i) अदाराणाम् अननुगुणदाराणां वा सुखं नास्ति ।
III. (ii)(ग) कलत्रम् (iii) (ख) ल्यप्
(iii) (क) लङ् (iv) (घ) अस्मद्
◆●